English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।)
अर्णवः पितः, अस्माकम्‌ उद्यानाद्‌ जपाकुसुमम्‌ आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः।
पिता सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम्‌ अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।)
पिता कि दृष्टं त्वया?
अर्णवः पितः, अद्भुतम्‌ एतत्‌। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते।
पिता अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद्‌ विश्वं परमाणुभ्यः निर्मितम्‌। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते।
अर्णवः परमाणुः नाम किम्‌?
पिता अस्तु। कथयामि। मुष्टिमात्रान्‌ तण्डुलान्‌ महानसतः आनय।
अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, तात।

(१) अवबोधनम्‌। (३ तः २)          २

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।     

  1. एतद्‌ विश्वम्‌ ______ निर्मितम्‌। (तण्डुलैः/अणुभिः)
  2. अर्णवस्य पिता ______ प्राध्यापकः। (विज्ञानस्य/गणितस्य)

(ख) पूर्णवाक्येन उत्तरं लिखत।

अर्णवः किं गृहीत्वा प्रविशति?

(ग) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः?

(२) शब्दज्ञानम्‌। (३ तः २)              २

(क) गद्यांशात्‌ २ पूर्वकालवाचक-धातुसाधित-त्वान्त-अव्यये चित्वा लिखत।

(ख) गद्यांशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत।

विशेषणम्‌ विशेष्यम्‌
(१) मुष्टिमात्रान्‌ परागकणाः
(२) सूक्ष्माः अङ्गानि
  तण्डुलान्‌

(ग) लकारं लिखत।

स्वीकरोतु, तात।

Comprehension
Advertisements

Solution

(१) 

(क) 

  1. एतद्‌ विश्वं अणुभिः निर्मितम्‌। 
  2. अर्णवस्य पिता विज्ञानस्य प्राध्यापकः।

(ख) अर्णवः जपाकुसुमं गृहीत्वा प्रविशति।

(ग) एषः गद्यांशः ‘स एव परमाणुः।’ इति/एतस्मात्‌ पाठात्‌ उद्धृतः। 

(२) 

(क) 

  1. गृहीत्वा
  2. उक्त्वा

(ख) 

विशेषणम्‌ विशेष्यम्‌
(१) मुष्टिमात्रान्‌ तण्डुलान्‌
(२) सूक्ष्माः परागकणाः

(ग) लोट्लकार

shaalaa.com
  Is there an error in this question or solution?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×