Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
| (अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) | |
| अर्णवः | पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः। |
| पिता | सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।) |
| पिता | कि दृष्टं त्वया? |
| अर्णवः | पितः, अद्भुतम् एतत्। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते। |
| पिता | अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते। |
| अर्णवः | परमाणुः नाम किम्? |
| पिता | अस्तु। कथयामि। मुष्टिमात्रान् तण्डुलान् महानसतः आनय। |
| अर्णवः | (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति।) स्वीकरोतु, तात। |
(१) अवबोधनम्। (३ तः २) २
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
- एतद् विश्वम् ______ निर्मितम्। (तण्डुलैः/अणुभिः)
- अर्णवस्य पिता ______ प्राध्यापकः। (विज्ञानस्य/गणितस्य)
(ख) पूर्णवाक्येन उत्तरं लिखत।
अर्णवः किं गृहीत्वा प्रविशति?
(ग) एषः गद्यांशः कस्मात् पाठात् उद्धृतः?
(२) शब्दज्ञानम्। (३ तः २) २
(क) गद्यांशात् २ पूर्वकालवाचक-धातुसाधित-त्वान्त-अव्यये चित्वा लिखत।
(ख) गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत।
| विशेषणम् | विशेष्यम् |
| (१) मुष्टिमात्रान् | परागकणाः |
| (२) सूक्ष्माः | अङ्गानि |
| तण्डुलान् |
(ग) लकारं लिखत।
स्वीकरोतु, तात।
आकलन
Advertisements
उत्तर
(१)
(क)
- एतद् विश्वं अणुभिः निर्मितम्।
- अर्णवस्य पिता विज्ञानस्य प्राध्यापकः।
(ख) अर्णवः जपाकुसुमं गृहीत्वा प्रविशति।
(ग) एषः गद्यांशः ‘स एव परमाणुः।’ इति/एतस्मात् पाठात् उद्धृतः।
(२)
(क)
- गृहीत्वा
- उक्त्वा
(ख)
| विशेषणम् | विशेष्यम् |
| (१) मुष्टिमात्रान् | तण्डुलान् |
| (२) सूक्ष्माः | परागकणाः |
(ग) लोट्लकार
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
