Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
|
एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद् दृष्ट्वा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्, “हे राजन् धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तुं यतस्व।” तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान् कुद्दालकानि लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।” |
(१) अवबोधनम्। (३ तः २) २
(क) कः कं वदति?
“तव पिता दुःशासकः।”
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
एकदा पृथुराजः परराज्ये भ्रमणम् अकरोत्।
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता।
(२) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत। २

Advertisements
उत्तर
(१)
(क) “तव पिता दुःशासकः।” इति भूमिः पृथुवैन्यं वदति।
(ख) असत्यम्
(ग) गोत्रा/कुः/पृथिवी/पृथ्वी/क्ष्मा/अवनिः/मेदिनी/मही स्त्रीरूपं धृत्वा प्रकटिता।
(२)

