English

चित्रम् आधृत्य अधः एकः गद्यांशः दीयते। तस्मात् कर्तृवाच्यस्य वाक्यानि ‘क’ भागे, कर्मवाच्यस्य वाक्यानि च ‘ख’ भागे लिख्यन्ताम्। एकः पथिकः नगरं गच्छति। सः हस्तेन पुस्तकं गृह्णाति।

Advertisements
Advertisements

Question

चित्रम् आधृत्य अधः एकः गद्यांशः दीयते। तस्मात् कर्तृवाच्यस्य वाक्यानि ‘क’ भागे, कर्मवाच्यस्य वाक्यानि च ‘ख’ भागे लिख्यन्ताम्।

एकः पथिकः नगरं गच्छति। सः हस्तेन पुस्तकं गृह्णाति। तेन एकः स्युतः अपि धार्यते। मार्गे आम्र-वृक्षाः दृश्यन्ते। तत्र सः खगानां कलरवं शृणोति। वृक्षच्छायायां तेन सुखम् अनुभूयते। सः आम्रफलानि खादति। तेन वृक्षाः प्रशंस्यन्ते। अहो! धन्या: एते वृक्षाः ये फलानि छायामपि च यच्छन्ति। एतैः तु सदा परोपकारः एव आचर्यते। पथिकेन सङ्कल्पः क्रियते - “अहमपि स्वगृहे वृक्षान् आरोपयिष्यामि।”

‘क’ (कर्तृवाच्यम्) ‘ख’ (कर्मवाच्यम्)
यथा - एकः पथिकः नगरं गच्छति। तेन एकः स्युतः धार्यते।
क) ..... क) .....
ख) ..... ख) .....
ग) ..... ग) .....
घ) ..... घ) .....
ङ) ..... ङ) .....
Grammar/Language
Advertisements

Solution

‘क’ (कर्तृवाच्यम्) ‘ख’ (कर्मवाच्यम्)
यथा - एकः पथिकः नगरं गच्छति। तेन एकः स्युतः धार्यते।
क) सः हस्तेन पुस्तकं गृह्णाति। क) मार्गे आम्र-वृक्षाः दृश्यन्ते।
ख) तत्र सः खगानां कलरवं शृणोति। ख) वृक्षच्छायायां तेन सुखम् अनुभूयते।
ग) सः आम्रफलानि खादति। ग) तेन वृक्षाः प्रशंस्यन्ते।
घ) अहो! धन्याः एते वृक्षाः ये फलानि छायामपि च यच्छन्ति। घ) एतैः तु सदा परोपकारः एव आचर्यते।
ङ) अहमपि स्वगृहे वृक्षान् आरोपयिष्यामि। ङ) पथिकेन सङ्कल्पः क्रियते।
shaalaa.com
  Is there an error in this question or solution?
Chapter 11: वाच्यम्‌ - कर्तृवाच्यं कर्मवाच्यं च [Page 91]

APPEARS IN

CBSE Sanskrit Manika Dvitiyo Bhag Class 10
Chapter 11 वाच्यम्‌
कर्तृवाच्यं कर्मवाच्यं च | Q 1. | Page 91
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×