चित्रम् आधृत्य अधः एकः गद्यांशः दीयते। तस्मात् कर्तृवाच्यस्य वाक्यानि ‘क’ भागे, कर्मवाच्यस्य वाक्यानि च ‘ख’ भागे लिख्यन्ताम्। एकः पथिकः नगरं गच्छति। सः हस्तेन पुस्तकं गृह्णाति।
Advertisements
Advertisements
प्रश्न
चित्रम् आधृत्य अधः एकः गद्यांशः दीयते। तस्मात् कर्तृवाच्यस्य वाक्यानि ‘क’ भागे, कर्मवाच्यस्य वाक्यानि च ‘ख’ भागे लिख्यन्ताम्।
एकः पथिकः नगरं गच्छति। सः हस्तेन पुस्तकं गृह्णाति। तेन एकः स्युतः अपि धार्यते। मार्गे आम्र-वृक्षाः दृश्यन्ते। तत्र सः खगानां कलरवं शृणोति। वृक्षच्छायायां तेन सुखम् अनुभूयते। सः आम्रफलानि खादति। तेन वृक्षाः प्रशंस्यन्ते। अहो! धन्या: एते वृक्षाः ये फलानि छायामपि च यच्छन्ति। एतैः तु सदा परोपकारः एव आचर्यते। पथिकेन सङ्कल्पः क्रियते - “अहमपि स्वगृहे वृक्षान् आरोपयिष्यामि।”

| ‘क’ (कर्तृवाच्यम्) | ‘ख’ (कर्मवाच्यम्) |
| यथा - एकः पथिकः नगरं गच्छति। | तेन एकः स्युतः धार्यते। |
| क) ..... | क) ..... |
| ख) ..... | ख) ..... |
| ग) ..... | ग) ..... |
| घ) ..... | घ) ..... |
| ङ) ..... | ङ) ..... |
व्याकरण/भाषा
Advertisements
उत्तर
| ‘क’ (कर्तृवाच्यम्) | ‘ख’ (कर्मवाच्यम्) |
| यथा - एकः पथिकः नगरं गच्छति। | तेन एकः स्युतः धार्यते। |
| क) सः हस्तेन पुस्तकं गृह्णाति। | क) मार्गे आम्र-वृक्षाः दृश्यन्ते। |
| ख) तत्र सः खगानां कलरवं शृणोति। | ख) वृक्षच्छायायां तेन सुखम् अनुभूयते। |
| ग) सः आम्रफलानि खादति। | ग) तेन वृक्षाः प्रशंस्यन्ते। |
| घ) अहो! धन्याः एते वृक्षाः ये फलानि छायामपि च यच्छन्ति। | घ) एतैः तु सदा परोपकारः एव आचर्यते। |
| ङ) अहमपि स्वगृहे वृक्षान् आरोपयिष्यामि। | ङ) पथिकेन सङ्कल्पः क्रियते। |
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
