English

अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत - कञ्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम्अददात्।

Advertisements
Advertisements

Question

अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत -

कञ्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम्
अददात्। जनाः तस्याः जलं पीत्वा सुखेन अजीवन। एकः कृषकः तेन जलेन सर्वदा कृषिम् अकरोत्। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन्। महिलाः पर्वसमये नदीम् अपूजयन्। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि अक्षिपत्। क्रमशः अन्ये अपि अक्षिपन्। तेन नदी मलिना अभवत्, मीनाः अम्रियन्त। स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् अवदत्। सा नदीतीरम् आगत्त्य स्वयं वृक्षम् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् अकुर्वन्। सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुनः नदी स्वच्छा जाता निर्मलं जलं च अददात्। ततः आरभ्य वर्षे एकवारं जनाः नदीम् अपूजयन् वृक्षारोपणं च अकुर्वन्

Grammar/Language
Advertisements

Solution

कञ्चित् ग्रामं निकषा एका नदी आसीत्/असितवती। नदी सर्वदा स्वच्छजलम्
दत्तवती। जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः। एकः कृषकः तेन जलेन सर्वदा कृषिम् कृतवान्। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः। महिलाः पर्वसमये नदीम् पूजितवत्यः। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान्। क्रमशः अन्ये अपि क्षिप्तवन्तः। तेन नदी मलिना अभवत्, मीनाः मृतवन्तः। स्त्रियः रोगैः पीडिताः भूतवत्यः। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती। सा नदीतीरम् आगत्त्य स्वयं वृक्षम् रोपितवती। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् कृतवत्यः। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः। पुनः नदी स्वच्छा जाता निर्मलं जलं च दत्तवती। ततः आरभ्य वर्षे एकवारं जनाः नदीम् पूजितवन्तः वृक्षारोपणं च कृतवन्तः।

shaalaa.com
  Is there an error in this question or solution?
Chapter 3: आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः - अभ्यासाद् जायते सिद्धिः [Page 33]

APPEARS IN

NCERT Sanskrit Sharda Class 9
Chapter 3 आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
अभ्यासाद् जायते सिद्धिः | Q ७. | Page 33
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×