Advertisements
Advertisements
Question
अधोलिखितं श्लोकं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
|
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥ |
(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 1
(क) कोशः कीदृशः अस्ति?
(ख) कोशस्य क्षयः कस्मात् भवति?
(ग) सरस्वत्याः कः अपूर्वः अस्ति?
(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) कस्याः कोशः अपूर्व विद्यते?
(ख) कोशः कदा वृद्धिम् आयाति?
(ग) भारत्याः कोशः कथम् अपूर्वः अस्ति?
(iii) निर्देशानुसारम् उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) ‘कोशः’ इति कर्तृपदस्य क्रियापदं किम्?
(ख) ‘अयम्’ इति पदस्य विशेष्यपदं किमस्ति?
(ग) ‘निधिः’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?
Advertisements
Solution
(i)
(क) अपूर्वः
(ख) सञ्चयात्
(ग) कोशः
(ii)
(क) भारत्याः (सरस्वत्याः) कोशः अपूर्वः विद्यते।
(ख) कोशः व्ययतः वृद्धिम् आयाति।
(ग) भारत्याः कोशः व्ययतः वृद्धिम् आयाति सञ्चयात् च क्षयम् आयाति, अतः अयम् अपूर्वः अस्ति।
(iii)
(क) विद्यते (या आयाति)
(ख) कोशोऽयं (कोशः)
(ग) कोशः
