English

अधोलिखितं नाट्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ संस्कृतेन उत्तरत - योगाचार्यः अलं चिन्तया, एकैकं कृत्वा बोधयामि। यमः - अहिंसासत्यास्तेयब्रह्यचर्यापरिग्रहाः यमाः। - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितं नाट्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ संस्कृतेन उत्तरत -

योगाचार्यः अलं चिन्तया, एकैकं कृत्वा बोधयामि।
यमः - अहिंसासत्यास्तेयब्रह्यचर्यापरिग्रहाः यमाः।
नियमः - शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः।
आसनम्‌ - स्थिरसुखमासनम्‌।
प्राणायामः - तस्मिन्‌ सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः।
प्रत्याहारः - स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः।
धारणा - देशबन्धश्चित्तस्य धारणा।
ध्यानम्‌ - तत्र प्रत्ययैकतानता ध्यानम्‌।
समाधिः - तदेवार्थमात्रनिरर्भासं स्वरूपशून्यमिव समाधिः।
(एतत्सर्वमपि योगाचार्यः श्यामपट्टे लिखित्वा बोधयति छात्राश्च स्वस्वपुस्तिकासु लिखन्ति, अवबुध्यन्ति च।)
स्वप्निलः आचार्य! योगाड्ङ्गानां नामानि तु अस्माभिः सुष्ठु ज्ञातानि अवबुद्धानि चाऽपि। साम्प्रतं योगाङ्गानां फलमपि ज्ञातुं महती उत्कण्ठा वर्तते।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)   1

  1. योगाचार्यः कुत्र लिखित्वा सर्वं बोधयति?
  2. अस्तेयं किम्‌ अस्ति?
  3. छात्रैः केषां नामानि अवबुद्धानि?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)   2

  1. प्रत्याहारस्य लक्षणं किम्‌ अस्ति?
  2. किं ज्ञातु छात्राणां महती उत्कण्ठा वर्तते?
  3. नियमाः के सन्ति?

III. (अ) निर्देशानुसारम्‌ उत्तरत -   2

  1. ‘लिखन्ति’ इति क्रियापदस्य किं कर्तृपदं संवादे प्रयुक्तम्‌?
  2. ‘उत्कण्ठा’ इति पदस्य विशेषणपदं किं प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -

  1. ‘अधुना’ इत्यर्थे संवादे किं पदं प्रयुक्तम्‌?
  2. ‘सङ्ग्रहः’ इत्यस्य विलोमपदं संवादात्‌ चित्वा लिखत। 
Comprehension
Advertisements

Solution

I. 

  1. श्यामपट्टे
  2. यमः
  3. योगाङ्गानाम्‌

II. 

  1. स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः।
  2. योगाङ्गानां फलं ज्ञातुं छात्राणां महती उत्कण्ठा वर्तते।
  3. शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः सन्ति।

III. (अ) 

  1. छात्राः
  2. महती

अथवा

(आ) 

  1. साम्प्रतम्‌ 
  2. अपरिग्रहः
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×