Advertisements
Advertisements
प्रश्न
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
| योगाचार्यः | अलं चिन्तया, एकैकं कृत्वा बोधयामि। |
| यमः - अहिंसासत्यास्तेयब्रह्यचर्यापरिग्रहाः यमाः। | |
| नियमः - शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः। | |
| आसनम् - स्थिरसुखमासनम्। | |
| प्राणायामः - तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः। | |
| प्रत्याहारः - स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। | |
| धारणा - देशबन्धश्चित्तस्य धारणा। | |
| ध्यानम् - तत्र प्रत्ययैकतानता ध्यानम्। | |
| समाधिः - तदेवार्थमात्रनिरर्भासं स्वरूपशून्यमिव समाधिः। | |
| (एतत्सर्वमपि योगाचार्यः श्यामपट्टे लिखित्वा बोधयति छात्राश्च स्वस्वपुस्तिकासु लिखन्ति, अवबुध्यन्ति च।) | |
| स्वप्निलः | आचार्य! योगाड्ङ्गानां नामानि तु अस्माभिः सुष्ठु ज्ञातानि अवबुद्धानि चाऽपि। साम्प्रतं योगाङ्गानां फलमपि ज्ञातुं महती उत्कण्ठा वर्तते। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- योगाचार्यः कुत्र लिखित्वा सर्वं बोधयति?
- अस्तेयं किम् अस्ति?
- छात्रैः केषां नामानि अवबुद्धानि?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- प्रत्याहारस्य लक्षणं किम् अस्ति?
- किं ज्ञातु छात्राणां महती उत्कण्ठा वर्तते?
- नियमाः के सन्ति?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘लिखन्ति’ इति क्रियापदस्य किं कर्तृपदं संवादे प्रयुक्तम्?
- ‘उत्कण्ठा’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘अधुना’ इत्यर्थे संवादे किं पदं प्रयुक्तम्?
- ‘सङ्ग्रहः’ इत्यस्य विलोमपदं संवादात् चित्वा लिखत।
आकलन
Advertisements
उत्तर
I.
- श्यामपट्टे
- यमः
- योगाङ्गानाम्
II.
- स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः।
- योगाङ्गानां फलं ज्ञातुं छात्राणां महती उत्कण्ठा वर्तते।
- शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः सन्ति।
III. (अ)
- छात्राः
- महती
अथवा
(आ)
- साम्प्रतम्
- अपरिग्रहः
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
