English

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। [स्थानम्‌ - सरस्तीरम्‌। समयः प्रभातवेला। तत्र राजहंसः हंसी च विहरतः। नेपथ्ये काकध्वनिः श्रूयते।] राजहंसः अये! - Sanskrit (Communicative)

Advertisements
Advertisements

Question

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

[स्थानम्‌ - सरस्तीरम्‌। समयः प्रभातवेला। तत्र राजहंसः हंसी च विहरतः। नेपथ्ये काकध्वनिः श्रूयते।]
राजहंसः अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम्‌ आकुलीक्रियते?
राजहंसी भर्तः! काकात्‌ अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्णः, कर्म अपि कृष्णम्‌। मेध्यम्‌ अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः .........
काकः (प्रविश्य सक्रोधम्‌) आः किम्‌ उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृशः? श्रीवासुदेवस्य वर्णः कीदृशः? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान्‌ प्रबोधयामि कर्मसु च विनियोजयामि।
राजहंसः हुं! किमनेन? एतत्‌ कार्यं तु कुक्कुटोऽपि करोति।
काकः (विहस्य) कुक्कुटः! अरे अद्य कुतः कुक्कुटाः नगरेषु। अहमेव सर्वत्र सुलभः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)   1

  1. कर्तव्यपरायणः कः अस्ति?
  2. काकस्य वर्णः कीदृशः अस्ति?
  3. काकध्वनिः कुत्र श्रूयते?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)   2

  1. राजहंसः राजहंसीं किं पृच्छति?
  2. काकः सक्रोधं किं वदति?
  3. राजहंसी भर्तारं किम्‌ उत्तरति?

III. (अ) निर्देशानुसारम्‌ उत्तरत -   2

  1. ‘पवित्रम्‌’ इत्यस्य किं पर्यायपदम्‌ अत्र प्रयुक्तम्‌?
  2. ‘करोति’ इति क्रियापदस्य कर्तृपदं किम्‌ अत्र प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -

  1. ‘वर्णः कृष्णः’ इत्यनयोः पदयोः विशेष्यपदं चित्वा लिखत।
  2. ‘एतत्‌ कार्यं तु कुक्कुटोऽपि करोति’ अस्मिन्‌ वाक्ये क्रियापदं किम्‌?
Comprehension
Advertisements

Solution

I. 

  1. काकः 
  2. कृष्णः
  3. नेपथ्ये

II. 

  1. राजहंसः राजहंसीं पृच्छति - अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम्‌ आकुलीक्रियते? इति
  2. काकः सक्रोधं वदति - आः किम्‌ उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हिश्री रामस्य वर्णः कीदृशः? श्रीवासुदेवस्य वर्णः कीदृशः? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान्‌ प्रबोधयामि कर्मसु च विनियोजयामि इति।
  3. राजहंसी भर्तारम्‌ उत्तरति - भर्तः! काकात्‌ अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्णः, कर्म अपि कृष्णम्‌। मेध्यम्‌ अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः ...इति।

III. (अ) 

  1. मेध्यम्‌
  2. कुक्कुटः

अथवा

(आ) 

  1. वर्णः 
  2. करोति
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×