Advertisements
Advertisements
प्रश्न
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| [स्थानम् - सरस्तीरम्। समयः प्रभातवेला। तत्र राजहंसः हंसी च विहरतः। नेपथ्ये काकध्वनिः श्रूयते।] | |
| राजहंसः | अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते? |
| राजहंसी | भर्तः! काकात् अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्णः, कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः ......... |
| काकः | (प्रविश्य सक्रोधम्) आः किम् उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृशः? श्रीवासुदेवस्य वर्णः कीदृशः? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान् प्रबोधयामि कर्मसु च विनियोजयामि। |
| राजहंसः | हुं! किमनेन? एतत् कार्यं तु कुक्कुटोऽपि करोति। |
| काकः | (विहस्य) कुक्कुटः! अरे अद्य कुतः कुक्कुटाः नगरेषु। अहमेव सर्वत्र सुलभः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- कर्तव्यपरायणः कः अस्ति?
- काकस्य वर्णः कीदृशः अस्ति?
- काकध्वनिः कुत्र श्रूयते?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- राजहंसः राजहंसीं किं पृच्छति?
- काकः सक्रोधं किं वदति?
- राजहंसी भर्तारं किम् उत्तरति?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘पवित्रम्’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
- ‘करोति’ इति क्रियापदस्य कर्तृपदं किम् अत्र प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘वर्णः कृष्णः’ इत्यनयोः पदयोः विशेष्यपदं चित्वा लिखत।
- ‘एतत् कार्यं तु कुक्कुटोऽपि करोति’ अस्मिन् वाक्ये क्रियापदं किम्?
आकलन
Advertisements
उत्तर
I.
- काकः
- कृष्णः
- नेपथ्ये
II.
- राजहंसः राजहंसीं पृच्छति - अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते? इति
- काकः सक्रोधं वदति - आः किम् उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हिश्री रामस्य वर्णः कीदृशः? श्रीवासुदेवस्य वर्णः कीदृशः? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान् प्रबोधयामि कर्मसु च विनियोजयामि इति।
- राजहंसी भर्तारम् उत्तरति - भर्तः! काकात् अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्णः, कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः ...इति।
III. (अ)
- मेध्यम्
- कुक्कुटः
अथवा
(आ)
- वर्णः
- करोति
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
