अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत- एकदा महात्मा गान्धिः पत्राणि (i) .....। सहसा मसीपात्रे (ii) ..... समाप्ता अभवत्। तत्रैव लेखनीं परित्यज्य सः कार्यविशात् बहिः (iii) .....।
Advertisements
Advertisements
Question
अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत-
एकदा महात्मा गान्धिः पत्राणि (i) .....। सहसा मसीपात्रे (ii) ..... समाप्ता अभवत्। तत्रैव लेखनीं परित्यज्य सः कार्यविशात् बहिः (iii) .....। पुनः यदा आगतः, लेखितुम् इतस्ततः (iv) ..... परन्तु लेखनी कुत्रापि न आसीत्। सः कर्मचारिणं (v) .....। कर्मचारी अवदत् - “सा तु मया बहिः (vi) .....। भवान् नूतनां लेखनीं स्वीकरोतु इति।” महात्मागाधिः प्रत्यवदत् - “तस्याम् एव मसीं पूरय। देशस्य धनम् अमूल्यम् (vii) .....। क्षुद्रातिक्षुद्रम् अपि वस्तु न क्षेपणीयम्।” एवम् उक्त्वा सः स्वयं बहिः गत्वा लेखनीम् अन्विष्य (viii) .....। तस्यां मसीम् (ix) ..... तथा एव लेखनकार्यं (x) .....।
मञ्जूषा
| आनीतवान्, प्रारब्धवान्, लिखति स्म, अस्ति, अपूरयत्, क्षिप्ता, पृष्टवान्, दृष्टवान्, गतवान्, मसी। |
Advertisements
Solution
एकदा महात्मा गान्धिः पत्राणि (i) लिखति स्म। सहसा मसीपात्रे (ii) मसी समाप्ता अभवत्। तत्रैव लेखनीं परित्यज्य सः कार्यविशात् बहिः (iii) गतवान्। पुनः यदा आगतः, लेखितुम् इतस्ततः (iv) दृष्टवान् परन्तु लेखनी कुत्रापि न आसीत्। सः कर्मचारिणं (v) पृष्टवान्। कर्मचारी अवदत् - “सा तु मया बहिः (vi) क्षिप्ता। भवान् नूतनां लेखनीं स्वीकरोतु इति।” महात्मागाधिः प्रत्यवदत् - “तस्याम् एव मसीं पूरय। देशस्य धनम् अमूल्यम् (vii) अस्ति। क्षुद्रातिक्षुद्रम् अपि वस्तु न क्षेपणीयम्।” एवम् उक्त्वा सः स्वयं बहिः गत्वा लेखनीम् अन्विष्य (viii) आनीतवान्। तस्यां मसीम् (ix) अपूरयत् तथा एव लेखनकार्यं (x) प्रारब्धवान्।
