अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत- एकः बालकः (i) .....। तस्य नाम आलः आसीत्। एकदा सः (ii) ..... अपृच्छत् - ‘मातः! मूर्खः कः भवति? माता (iii) ..... ‘यः बुद्धिहीनः स एव
Advertisements
Advertisements
Question
अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत-
एकः बालकः (i) .....। तस्य नाम आलः आसीत्। एकदा सः (ii) ..... अपृच्छत् - ‘मातः! मूर्खः कः भवति? माता (iii) ..... ‘यः बुद्धिहीनः स एव मूर्खः भवति।’ एतच्छ्रुत्वा सः बालकः (iv) ..... अभवत् अकथयत् च - ‘तदा अहं (v) ..... अस्मि, यतोहि विद्यालये सर्वे मां मूर्खः। इति कथयन्ति। अधुना अहं विद्यालयं न गमिष्यामि। माता तम् अवबोधयत् - “पुत्र! निराशः मा भव। त्वं मूर्खः नासि। अहं त्वां बुद्धिमन्तं (vi) .....।”
माता बालकं प्रतिदिनम् अपाठयत्। सः बालकः अपि (vii) ..... अपठत् मातुः सेवां च अकरोत्। एकस्मिन् दिवसे सः महान् (viii) ..... अभवत्। “तस्य नाम थामस अल्वा एडीसन” आसीत्। विद्युद्-दीपकः, ग्रामोफोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि (ix) ..... अस्य एव महावैज्ञानिकस्य आविष्काराः सन्ति। एषः महान् वैज्ञानिकः अकथयत् - “मम माता एव मम मार्गदर्शिका (x) ..... च अस्ति।”
मञ्जूषा
| बुद्धिहीनः, खिन्नः, शिक्षिका, वैज्ञानिकः, आसीत्, परिश्रमेण, मातरम्, वस्तूनि, अवदत्, करिष्यामि। |
Advertisements
Solution
एकः बालकः (i) आसीत्। तस्य नाम आलः आसीत्। एकदा सः (ii) मातरम् अपृच्छत् - ‘मातः! मूर्खः कः भवति? माता (iii) अवदत् ‘यः बुद्धिहीनः स एव मूर्खः भवति।’ एतच्छ्रुत्वा सः बालकः (iv) खिन्नः अभवत् अकथयत् च - ‘तदा अहं (v) बुद्धिहीनः अस्मि, यतोहि विद्यालये सर्वे मां मूर्खः। इति कथयन्ति। अधुना अहं विद्यालयं न गमिष्यामि। माता तम् अवबोधयत् - “पुत्र! निराशः मा भव। त्वं मूर्खः नासि। अहं त्वां बुद्धिमन्तं (vi) करिष्यामि।”
माता बालकं प्रतिदिनम् अपाठयत्। सः बालकः अपि (vii) परिश्रमेण अपठत् मातुः सेवां च अकरोत्। एकस्मिन् दिवसे सः महान् (viii) वैज्ञानिकः अभवत्। “तस्य नाम थामस अल्वा एडीसन” आसीत्। विद्युद्-दीपकः, ग्रामोफोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि (ix) वस्तूनि अस्य एव महावैज्ञानिकस्य आविष्काराः सन्ति। एषः महान् वैज्ञानिकः अकथयत् - “मम माता एव मम मार्गदर्शिका (x) शिक्षिका च अस्ति।”
