Advertisements
Advertisements
Question
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| कदाचित् केचन चौराः कस्यचित् साधोः कुटीरम् आगच्छन्। ते चौराः कुटीरम् आगत्य तस्य धेनुं चोरयित्वा नयन्ति स्म। तस्मिन् समये साधुः ईश्वर-स्तुत्यां रतः आसीत्। यदा धेनुः उच्चैः अस्मभत तदा उन्मीलितनेत्रः साधुः अपश्यत् यत् केचन जनाः तस्य धेनुं नयन्ति। साधुः तान् शान्तभावेन अवदत् - ‘तिष्ठत भ्रातरः! एतं गोवत्सम् अपि नयत अन्यथा मातृ-वियोगेन एषः स्वप्राणान् त्यक्ष्यति।’ साधोः हृदयस्य करुणभावनया चौराणां मनः परिवर्तितम् अभवत्। ते साधोः चरणयोः अपतन्, भविष्ये च चौरकर्म त्यक्त्वा उद्यमेन धनम् अर्जयितुम् प्रेरिताः अभवन्। |
(अ) एकपदेन उत्तरत-
- केषां मनः परिवर्तितम् अभवत्?
- चौराः कां चोरयित्वा नयन्ति स्म?
- साधुः कस्यां रतः आसीत्?
(आ) पूर्णवाक्येन उत्तरत-
- उन्मीलितनेत्रः साधुः किम् अपश्यत्?
- साधुः चौरान् किम् अकथयत्?
- चौराणां मनः कथं परिवर्तितम् अभवत्?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) निर्देशानुसारम् उत्तरत-
- ‘नयन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम्?
- ‘निमीलितनेत्रः’ इति पदस्य विलोमपदम् अनुच्छेदे किम्?
- ‘तस्य धेनुम् अनयन्।’ इति वाक्ये ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
- ‘साधोः’ इति पदस्य विशेषणपदम् अनुच्छेदे किम्?
Comprehension
Advertisements
Solution
(अ)
- चौराणाम्।
- धेनुम्।
- ईश्वरस्तुत्याम्।
(आ)
- सः अपश्यत् यत् केचन जनाः तस्य धेनुं नयन्ति।
- सः ‘तिष्ठत भ्रातरः! एतं गोवत्सम् अपि नयत, अन्यथा मातृवियोगेन एषः स्वप्राणान् त्यक्ष्यति।’ इति अकथयत्।
- साधोः हृदयस्य करुणभावनया चौराणां मनः परिवर्तितम् अभवत्।
(इ) करुणायाः महत्त्वम्।
(ई)
- चौराः।
- उन्मीलितनेत्रः।
- साधोः।
- करुणम् (करुणभावनया इत्यत्र)।
shaalaa.com
Is there an error in this question or solution?
