हिंदी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - कदाचित् केचन चौराः कस्यचित् साधोः कुटीरम् आगच्छन्। ते चौराः कुटीरम् आगत्य तस्य धेनुं चोरयित्वा नयन्ति स्म।

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

कदाचित् केचन चौराः कस्यचित् साधोः कुटीरम् आगच्छन्। ते चौराः कुटीरम् आगत्य तस्य धेनुं चोरयित्वा नयन्ति स्म। तस्मिन् समये साधुः ईश्वर-स्तुत्यां रतः आसीत्। यदा धेनुः उच्चैः अस्मभत तदा उन्मीलितनेत्रः साधुः अपश्यत् यत् केचन जनाः तस्य धेनुं नयन्ति। साधुः तान् शान्तभावेन अवदत् - ‘तिष्ठत भ्रातरः! एतं गोवत्सम् अपि नयत अन्यथा मातृ-वियोगेन एषः स्वप्राणान् त्यक्ष्यति।’ साधोः हृदयस्य करुणभावनया चौराणां मनः परिवर्तितम् अभवत्। ते साधोः चरणयोः अपतन्, भविष्ये च चौरकर्म त्यक्त्वा उद्यमेन धनम् अर्जयितुम् प्रेरिताः अभवन्।

(अ) एकपदेन उत्तरत-

  1. केषां मनः परिवर्तितम् अभवत्?
  2. चौराः कां चोरयित्वा नयन्ति स्म?
  3. साधुः कस्यां रतः आसीत्?

(आ) पूर्णवाक्येन उत्तरत-

  1. उन्मीलितनेत्रः साधुः किम् अपश्यत्?
  2. साधुः चौरान् किम् अकथयत्?
  3. चौराणां मनः कथं परिवर्तितम् अभवत्?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) निर्देशानुसारम् उत्तरत-

  1. ‘नयन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम्?
  2. ‘निमीलितनेत्रः’ इति पदस्य विलोमपदम् अनुच्छेदे किम्?
  3. ‘तस्य धेनुम् अनयन्।’ इति वाक्ये ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
  4. ‘साधोः’ इति पदस्य विशेषणपदम् अनुच्छेदे किम्?
आकलन
Advertisements

उत्तर

(अ)

  1. चौराणाम्।
  2. धेनुम्।
  3. ईश्वरस्तुत्याम्।

(आ) 

  1. सः अपश्यत् यत् केचन जनाः तस्य धेनुं नयन्ति।
  2. सः ‘तिष्ठत भ्रातरः! एतं गोवत्सम् अपि नयत, अन्यथा मातृवियोगेन एषः स्वप्राणान् त्यक्ष्यति।’ इति अकथयत्।
  3. साधोः हृदयस्य करुणभावनया चौराणां मनः परिवर्तितम् अभवत्।

(इ) करुणायाः महत्त्वम्।

(ई) 

  1. चौराः।
  2. उन्मीलितनेत्रः।
  3. साधोः।
  4. करुणम् (करुणभावनया इत्यत्र)।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १८३]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
अध्याय 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 10. | पृष्ठ १८३
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×