हिंदी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - श्रुतिपरम्परया समागताः प्राचीनतमाः ग्रन्थाः वेदाः सन्ति। ते चत्वारः सन्ति - ऋग्वेदः, यजुर्वेदः, सामवेदः अथर्ववेदश्च।

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

श्रुतिपरम्परया समागताः प्राचीनतमाः ग्रन्थाः वेदाः सन्ति। ते चत्वारः सन्ति - ऋग्वेदः, यजुर्वेदः, सामवेदः अथर्ववेदश्च। वेदाः मानवकल्याणाय पथप्रदर्शकाः ग्रन्थाः सन्ति। वैदिककालीनं जीवनम् आदर्शभूतम् आसीत्। तदा मानवाः प्रमादरहिताः उद्योगशीलाः आसन्। वेदानां सन्देशः अस्ति यत् समाजे एकता भवेत्, जनेषु परस्परम् उच्चनीचभावः न भवेत् इति। ‘सङ्घच्छध्वं संवदध्वम्’ इति सङ्घटनसूक्तम् एतदेव उपदिशति यत् जनानां मनसि समानभावनाः स्युः। यदा सर्वे मिलित्वा कार्यं कुर्वन्ति, तदा समाजः उन्नतिशीलः भवति। अस्माभिः वैदिकजीवनमूल्यानि एव आचरणीयानि येन समाजे कश्चन दीनः दुर्बलः च न भवेत्। समाजघातकानि दुर्व्यसनानि सर्वथा त्याज्यानि भवेयुः। वेदेषु दुर्व्यसनानां निन्दा उद्योगस्य च प्रशंसा कृता वर्तते। उद्योगशीलाः जनाः एव स्वस्य, समाजस्य राष्ट्रस्य च उद्धारकाः भवन्ति इति उपदिशन्ति वेदाः।

(अ) एकपदेन उत्तरत-

  1. वेदेषु कस्य प्रशंसा कृता?
  2. वेदकालीनं जीवनं कीदृशम् आसीत्?
  3. ‘उच्चनीचभावः न भवेत्’ इति केषां सन्देशः?

(आ) पूर्णवाक्येन उत्तरत-

  1. उद्योगशीलाः जनाः कीदृशाः भवन्ति?
  2. वेदाः के सन्ति?
  3. सङ्कटनसूक्तं किम् उपदिशति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) निर्देशानुसारम् उत्तरत-

  1. ‘भवेयुः’ इति क्रियापदस्य कर्तृपदं किम्?
  2. ‘उद्योगशीलाः’ इति विशेषणस्य विशेष्यं किम्?
  3. ‘यदा सर्वे मिलित्वा कार्यं कुर्वन्ति।’ अत्र सर्वे इति सर्वनामपदं केभ्यः प्रयुक्तम्?
  4. ‘मानवानाम्’ इति अर्थं अनुच्छेदे किं पदं प्रयुक्तम्?
आकलन
Advertisements

उत्तर

(अ)

  1. उद्योगस्य।
  2. आदर्शभूतम्।
  3. वेदानाम्।

(आ) 

  1. ते स्वस्य, समाजस्य, राष्ट्रस्य च उद्धारकाः भवन्ति।
  2. वेदाः श्रुतिपरम्परया समागताः प्राचीनतमाः ग्रन्थाः सन्ति।
  3. तत् जनानां मनसि समानभावनाः स्युः इति उपदिशति।

(इ) वेदानां सन्देशः।

(ई) 

  1. दुर्व्यसनानि।
  2. जनाः।
  3. जनेभ्यः (जनाः)।
  4. जनानाम्।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १८२]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
अध्याय 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 9. | पृष्ठ १८२
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×