हिंदी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - एकदा एकः वैदेशिकः प्रथमराष्ट्रपतेः श्रीमतः राजेन्द्रप्रसादस्य गृहं प्राप्तवान्। राष्ट्रपतेः परिचारकः तम् आतिथ्यगृहे प्रतीक्षितुम् अकथयत्

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

एकदा एकः वैदेशिकः प्रथमराष्ट्रपतेः श्रीमतः राजेन्द्रप्रसादस्य गृहं प्राप्तवान्। राष्ट्रपतेः परिचारकः तम् आतिथ्यगृहे प्रतीक्षितुम् अकथयत् तम् असूचयत् च यद् राष्ट्रपतिमहोदया सम्प्रति पूजां कुर्वन्ति इति। सः अतिथिः ज्ञातुम् ऐच्छत् यद् राष्ट्रपतिः कथं करोति पूजाम्? परिचारकस्य मार्गदर्शनेन सङ्कोचं कुर्वन् सः अन्तः पूजागृहं प्राविशत्। सः आगन्तुकःराष्ट्रपते: समक्षं विद्यमानं मृत्पिण्डम् अवन्दत श्रद्धया च तत्र उपाविशत्। पूजां परिसमाप्य राष्ट्रपतिमहोदयः ससम्मानं तम् आतिथ्यगृहस्य अन्तः अनयत्। श्रीराजेन्द्रमहोदयः तस्य कौतूहलं विज्ञाय तस्मै समबोधयत् - एतत् मृत्पिण्डं भारतस्य भूम्याः प्रतीकम् अस्ति। वयं मृत्किकायाः कणेषु अपि ईश्वरस्य दर्शनं कुर्मः। अस्माकं चिन्तने तु मानवेषु पशुपक्षिषु, वृक्षेषु, पाषाणादिषु सर्वेषु चेतनाचेतनेषु अपि ईश्वरस्य सत्ता अस्ति।

(अ) एकपदेन उत्तरत-

  1. श्रीराजेन्द्रप्रसादस्य गृहं कः प्राप्तवान्?
  2. चेतनाचेतनादिषु कस्य सत्ता अस्ति?
  3. राष्ट्रपते: परिचारकः वैदेशिकं कुत्र प्रतीक्षितुम् अकथयत्?

(आ) पूर्णवाक्येन उत्तरत-

  1. अतिथिः किं ज्ञातुम् ऐच्छत्?
  2. श्रीराजेन्द्रमहोदयः आगन्तुकं किं समबोधयत्?
  3. भारतीयचिन्तनानुसारम् ईश्वरस्य सत्ता कुत्र अस्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत-

  1. ‘एकदा एकः वैदेशिकः प्रथमराष्ट्रपते: श्रीराजेन्द्रप्रसादस्य गृहं प्राप्तवान्।’ अत्र कर्तृपदं किम् अस्ति?
    (क) वैदेशिकः (ख) प्रथमराष्ट्रपते: (ग) श्रीराजेन्द्रप्रसादस्य (घ) गृहम्
  2. ‘बहिः’ पदस्य किं विपर्ययपदम् अनुच्छेदे प्रयुक्तम्?
    (क) समक्षम् (ख) सम्पदम् (ग) अन्तः (घ) विद्यमानम्
  3. ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
    (क) परिचारकाय (ख) आगन्तुकाय (ग) राजेन्द्रप्रसादाय (घ) मृत्पिण्डाय
  4. ‘एतत्’ इत्यस्य पदस्य किं विशेष्यपदं प्रयुक्तम्?
    (क) प्रतीकम् (ख) महतीम् (ग) भारतीयाः (घ) मृत्पिण्डम्
आकलन
Advertisements

उत्तर

(अ) 

  1. वैदेशिकः।
  2. ईश्वरस्य।
  3. आतिथ्यगृहे।

(आ) 

  1. सः राष्ट्रपतिः कथं पूजां करोति इति ज्ञातुम् ऐच्छत्।
  2. सः ‘एतत् मृत्पिण्डं भारतस्य भूम्याः प्रतीकम् अस्ति। वयं मृत्किकायाः कणेषु अपि ईश्वरस्य दर्शनं कुर्मः।’ इति समबोधयत्।
  3. मानवेषु, पशुपक्षिषु, वृक्षेषु, पाषाणादिषु, सर्वेषु चेतनाचेतनेषु च ईश्वरस्य सत्ता अस्ति।

(इ) ईश्वरस्य सर्वव्यापकत्वम्।

(ई) 

  1. वैदेशिकः 
  2. अन्तः 
  3. आगन्तुकाय 
  4. मृत्पिण्डम्
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १८१]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
अध्याय 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 8. | पृष्ठ १८१
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×