Advertisements
Advertisements
Question
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| एकदा एकः वैदेशिकः प्रथमराष्ट्रपतेः श्रीमतः राजेन्द्रप्रसादस्य गृहं प्राप्तवान्। राष्ट्रपतेः परिचारकः तम् आतिथ्यगृहे प्रतीक्षितुम् अकथयत् तम् असूचयत् च यद् राष्ट्रपतिमहोदया सम्प्रति पूजां कुर्वन्ति इति। सः अतिथिः ज्ञातुम् ऐच्छत् यद् राष्ट्रपतिः कथं करोति पूजाम्? परिचारकस्य मार्गदर्शनेन सङ्कोचं कुर्वन् सः अन्तः पूजागृहं प्राविशत्। सः आगन्तुकःराष्ट्रपते: समक्षं विद्यमानं मृत्पिण्डम् अवन्दत श्रद्धया च तत्र उपाविशत्। पूजां परिसमाप्य राष्ट्रपतिमहोदयः ससम्मानं तम् आतिथ्यगृहस्य अन्तः अनयत्। श्रीराजेन्द्रमहोदयः तस्य कौतूहलं विज्ञाय तस्मै समबोधयत् - एतत् मृत्पिण्डं भारतस्य भूम्याः प्रतीकम् अस्ति। वयं मृत्किकायाः कणेषु अपि ईश्वरस्य दर्शनं कुर्मः। अस्माकं चिन्तने तु मानवेषु पशुपक्षिषु, वृक्षेषु, पाषाणादिषु सर्वेषु चेतनाचेतनेषु अपि ईश्वरस्य सत्ता अस्ति। |
(अ) एकपदेन उत्तरत-
- श्रीराजेन्द्रप्रसादस्य गृहं कः प्राप्तवान्?
- चेतनाचेतनादिषु कस्य सत्ता अस्ति?
- राष्ट्रपते: परिचारकः वैदेशिकं कुत्र प्रतीक्षितुम् अकथयत्?
(आ) पूर्णवाक्येन उत्तरत-
- अतिथिः किं ज्ञातुम् ऐच्छत्?
- श्रीराजेन्द्रमहोदयः आगन्तुकं किं समबोधयत्?
- भारतीयचिन्तनानुसारम् ईश्वरस्य सत्ता कुत्र अस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत-
- ‘एकदा एकः वैदेशिकः प्रथमराष्ट्रपते: श्रीराजेन्द्रप्रसादस्य गृहं प्राप्तवान्।’ अत्र कर्तृपदं किम् अस्ति?
(क) वैदेशिकः (ख) प्रथमराष्ट्रपते: (ग) श्रीराजेन्द्रप्रसादस्य (घ) गृहम् - ‘बहिः’ पदस्य किं विपर्ययपदम् अनुच्छेदे प्रयुक्तम्?
(क) समक्षम् (ख) सम्पदम् (ग) अन्तः (घ) विद्यमानम् - ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) परिचारकाय (ख) आगन्तुकाय (ग) राजेन्द्रप्रसादाय (घ) मृत्पिण्डाय - ‘एतत्’ इत्यस्य पदस्य किं विशेष्यपदं प्रयुक्तम्?
(क) प्रतीकम् (ख) महतीम् (ग) भारतीयाः (घ) मृत्पिण्डम्
Comprehension
Advertisements
Solution
(अ)
- वैदेशिकः।
- ईश्वरस्य।
- आतिथ्यगृहे।
(आ)
- सः राष्ट्रपतिः कथं पूजां करोति इति ज्ञातुम् ऐच्छत्।
- सः ‘एतत् मृत्पिण्डं भारतस्य भूम्याः प्रतीकम् अस्ति। वयं मृत्किकायाः कणेषु अपि ईश्वरस्य दर्शनं कुर्मः।’ इति समबोधयत्।
- मानवेषु, पशुपक्षिषु, वृक्षेषु, पाषाणादिषु, सर्वेषु चेतनाचेतनेषु च ईश्वरस्य सत्ता अस्ति।
(इ) ईश्वरस्य सर्वव्यापकत्वम्।
(ई)
- वैदेशिकः
- अन्तः
- आगन्तुकाय
- मृत्पिण्डम्
shaalaa.com
Is there an error in this question or solution?
