Advertisements
Advertisements
प्रश्न
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| राष्ट्रस्य सर्वाङ्गीणविकासे छात्राणां महत्त्वपूर्णा भूमिका वर्तते यतः अद्यतनीयाः विद्यार्थिनः एव श्वस्तनीयाः प्रतिभावन्तः समृद्धाः सर्वसमर्थाः राष्ट्रोन्नतेः नायकाः सन्ति। राष्ट्रस्य उत्थानं पतनञ्च तान् एव आश्रयतः। अतः छात्राणां भाविजीवनस्य निर्माणे शिक्षकैः अभिभावकैः नागरिकैश्च सर्वैः एव सतर्कता सावधानता च परिलक्षणीयाः। छात्राः स्वयम् अपि स्वस्य भाविजीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्युः। इदमेव तेभ्यः सर्वेभ्यः अपेक्षते यत् ते स्वराष्ट्रं, स्वसमाजं, स्वधर्मं स्वसंस्कृतिञ्च प्रति अहर्निशं जागरूकाः भवेयुः यतः तेषां संयमितेन उत्कृष्टेन जीवनेन राष्ट्रं बलं गतिं च प्राप्तुं शक्नुयात्। येषां छात्राणां जीवनं राष्ट्रिय-भावनया परिपूर्णं न भवति तेषां जीवनं तस्मै राष्ट्राय समाजाय च भारायते। विद्यार्थिनां लक्ष्यं विद्योपार्जनेन सह चरित्रनिर्माणम् अपि भवेत्। विद्योपार्जनं कृत्वा चरित्रवन्तः छात्राः एव राष्ट्रम् उन्नतिपथं नेतुं समर्थाः भवन्ति। |
(अ) एकपदेन उत्तरत-
- राष्ट्रस्य विकासे केषां महत्त्वपूर्णा भूमिका वर्तते?
- कीदृशाः छात्राः राष्ट्रम् उन्नतिपथं नेतुं समर्थाः भवन्ति?
- छात्राः कस्य निर्माणं सतर्कतया सावधानतया च कुर्युः?
(आ) पूर्णवाक्येन उत्तरत-
- राष्ट्रोन्नतेः नायकाः के सन्ति?
- कीदृशाः छात्राः राष्ट्राय समाजाय वा भारभूताः एव भवन्ति?
- छात्रेभ्यः किम् अपेक्षते?
(इ) उपरिलिखितस्य अनुच्छेदस्य उचितं शीर्षकं लिखत।
(ई) निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत-
- अनुच्छेदे ‘छात्राणाम्’ इत्यस्य कः पर्यायः आगतः?
(क) तेषाम् (ख) भारतस्य (ग) विद्यार्थिनः (घ) विद्यार्थिनाम् - ‘शक्नुयात्’ क्रियापदस्य कर्तृपदं किम्?
(क) तेषाम् (ख) राष्ट्रम् (ग) बलम् (घ) जीवनेन - ‘असमर्थाः’ इत्यस्य पदस्य कः विपर्ययः अनुच्छेदे आगतः?
(क) समर्थाः (ख) समृद्धाः (ग) नायकाः (घ) जागरूकाः - ‘राष्ट्रस्य उत्थानं पतनञ्च तान् एव आश्रयतः।’ अत्र ‘तान्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) सर्वेभ्यः (ख) विद्यार्थिभ्यः (ग) शिक्षकेभ्यः (घ) नागरिकेभ्यः
आकलन
Advertisements
उत्तर
(अ)
- छात्राणाम्।
- चरित्रवन्तः।
- स्वभाविजीवनस्य।
(आ)
- अद्यतनीयाः विद्यार्थिनः एव श्वस्तनीयाः प्रतिभावन्ताः समृद्धाः सर्वसमर्थाः राष्ट्रोन्नतेः नायकाः सन्ति।
- येषां छात्राणां जीवनं राष्ट्रियभावनया परिपूर्णं न भवति ते राष्ट्राय समाजाय च भारभूताः भवन्ति।
- इदमेव अपेक्षते यत् ते स्वराष्ट्रं, स्वसमाजं, स्वधर्मं स्वसंस्कृतिञ्च प्रति अहर्निशं जागरूकाः भवेयुः।
(इ) राष्ट्रनिर्माणे छात्राणां भूमिका।
(ई)
- विद्यार्थिनाम्
- राष्ट्रम्
- समर्थाः
- विद्यार्थिभ्यः
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
