Advertisements
Advertisements
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
|
गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्रनिर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारित कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोत: सदर्पमाह-आः! किमेवमुच्यते। वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते। एतदाकये सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन्। यतो हि-बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते। |
(1) एकपदेन उत्तरत –
(क) आपत्काले केषां वचनं ग्राह्यम्?
(ख) विशाल: शाल्मलीतरु: कुत्रासीत्?
(ग) व्याध: कान् विकीर्य प्रच्छन्नो भूत्वा स्थित:?
(घ) सर्वथा कीदृशं कर्म न कर्तव्यम?
(2) पूर्णवाक्येन उत्तरत –
(क) कपोतराजः कान् प्रत्याह?
(ख) के कदा क्लिश्यन्ते?
(3) भाषिककार्यम् –
(क) ‘विशाल: शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम्?
(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत।
(ग)‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपद चित्वा लिखत।
(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
Advertisements
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
| समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिक: महत्त्वपूर्णः मूल्यवान् च वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लघु शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते। जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थक समयं यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्य कुर्वन्ति। न धर्मम् आचरन्ति न धनम् उपार्जन्ति, तेषां जन्म निरर्थकं भवति। भूमिरपि एतादृशानां निष्क्रियाणां भार वोदू नेच्छिति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति। ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते। पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः। |
(1) एकपदेन उत्तरत –
(क) पितरौ एतादृशान् कान् नाभिनन्दतः?
(ख) क: विनष्ट: परावर्तयितुं न शक्यते?
(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः?
(2) पूर्णवाक्येन उत्तरत –
(क) केषां जन्म निरर्थकं भवति?
(ख) अन्येषां वस्तुनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
(3) भाषिककार्यम्-
(क) 'यावान् काल: निरर्थक: गत: स: गत: एव' इति वाक्ये अव्ययपदं किम इति चित्वा लिखत।
(ख) 'सदुपयोग:' इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ग) 'अनेके जना:' इत्यत्र विशेष्यपदं किम्?
(घ) 'पुत्रान' इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
भाषिककार्यम्-
‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।
| जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्र धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समयः गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नी चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! कि जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्य करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रो: सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्। |
(1) एकपदेन उत्तरत –
(क) धनेश: कयो: सेवायां समयं यापयति स्म?
(ख) क: विद्वान पितृभक्तश्चासीत??
(ग) क: धनेशं जीवनस्य अभिप्रायम अपृच्छत्??
(घ) आचार्यस्य नाम किम आसीत्?
(2) पूर्णवाक्येन उत्तरत –
(क) धनेशस्य समय: कथं गच्छति स्म?
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेश: साश्चर्यम किम उदतरत?
(3) भाषिककार्यम्-
(क) 'तस्य पुत्र: धनेश:' इत्यत्र 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ''श्रुत्वा' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम् ?
(ग) 'पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम् ' अत्र क्रियापदं चित्वा लिखत |
(घ) ''मातु:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
|
अमर्त्यसेनः इति नाम एव संस्कृतमयम्। अस्य जन्म शान्तिनिकेतने अभवत्। शान्तिनिकेतनस्य संस्थापक: गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्-‘अमर्त्यसेनः इत्येतत् पद संस्कृत मूलम्। शान्तिनिकेतने वसन् अमर्त्य सेनः संस्कृताभ्यास कृतवान् सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थ स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्। अध्यापन-कार्य समाप्य श्रीअमर्त्यसेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विद्वत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मान दत्तवान् जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च। |
(1) एकपदेन उत्तरत –
(क)अमर्त्यसेनस्य जन्म कुत्र अभवत?
(ख) अमत्यसेनाय 'भारतरत्नम्' इति सम्मानं क: दत्तवान्?
(ग) अमर्त्यसेन: उच्चशिक्षार्थं कुत्र अगच्छत?
(घ) अमर्त्यसेन: कुत्र संकृताभ्यासं कृतवान ?
(2) पूर्णवाक्येन उत्तरत –
(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथ: ठाकुर: किम उक्तवान् ?
(ख) अध्यापनसमये स: किं कृतवान?
(3) भाषिककार्यम्-
(क) 'अस्य जन्म शान्तिनिकेतने अभवत्।' इत्यस्मिन् वाक्ये 'अस्य' इति सर्वनामपदं कस्मै प्रयुक्तम?
(ख) अमर्त्यसेन: संस्कृताभ्यासं कृतवान्।' गद्यांशेऽस्मिन् कर्तृपदं चित्वा लिखत।
(ग) ''अगच्छत '' इति क्रियापदस्य किं विलोमपदम अत्र प्रयुक्तम्?
(घ) 'महतीं गवेषणाम्' अत्र विशेषणपदं किम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
| विगतसप्ताहे अस्माकं विद्यालयपक्षतः शैक्षणिकयात्राप्रसने वयम् उज्जयिनी प्रति अगच्छामा उज्जयिनीं भारतस्य इतिहास धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रम् अस्ति। अत्र स्थितस्य महाकालेश्वरस्य कारणेनापि अस्याः विशिष्ट महत्त्वम्। एषा अवन्तिका, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णशृंगा इति नामभिरपि शास्त्रेषु वर्णिता। अत्रत्या वेधशालाऽपि अतिविशिष्टा। जनाः वेधशाला ‘यन्त्रभवनम्’ इत्यपि वदन्ति। इयम् आंग्लभाषायाम् ‘आब्जर्वेटरी’ इत्यपि कध्यते। शैक्षणिकयात्राप्रसंगात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्। एषा वेधशाला उज्जयिन्याः दक्षिणभागे क्षिप्रायाः उत्तरतटे उन्नतभूभागे स्थिताऽस्ति। कर्करेखा इतः एव निर्गता। इदं स्थानं गणितस्यापि अधारस्थलम्। अष्टादशशताब्या राज्ञा जयसिंहेन ज्योतिषानुरागवशात् वेधशालायाः निर्माण कारितम्। ग्रहाणां प्रत्यक्षवेधनाय जयसिंह उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मधुरायां च वेधशालानां निर्माणम् अकारयत्। वस्तुतः वेधशाला वीक्ष्य मनसि गौरवमनुभवामि यत् प्राचीनकालेऽपि अस्माकं पूर्वजानां गणितस्य ग्रहनक्षत्राणाञ्च ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्। |
(1) एकपदेन उत्तरत –
(क) वेधशाला कस्या: उत्तरतटे स्थिता अस्ति?
(ख) विद्यालयपक्षत: वयं कुत्र अगच्छाम?
(ग) वेधशालाया: एकम अपरं नाम लिखत?
(घ) वेधशाला कस्य आधारस्थलम्?
(2) पूर्णवाक्येन उत्तरत –
(क) जयसिंह : कुत्र -कुत्र वेधशालानां निर्माणम अकारयत??
(ख) उज्जयिनी केषां केन्द्रम वर्तते?
(3) भाषिककार्यम्-
(क) 'दृष्टवा ' इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) 'उत्तरभागे' इति पदस्य विपरीतार्थपदम अनुच्छेदत लिखत |
(ग) 'शैक्षणिकयात्राप्रसङ्गत अस्या: विशिष्टावलोकनम अस्माभि: कृतम अत्र 'अस्या:' इति सर्वनामपदं कस्यै प्रयुक्तम्?
(घ) 'अस्माकं पूर्वजानां ज्ञानम् अभ्दुतं वैज्ञानिकञ्चासीत् इत्यस्मिन् वाक्ये विशेष्यपदं किम?
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
| पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति। नवतिः एकड-परिमित बृहदाकारकम् इदमुपवनम्। अत्र शताधिक वर्षेभ्यः प्राचीनाः पादपाः सन्ति। तेषु वटवृक्षः अश्वत्थः निम्ब: किंशुक: आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति। प्रतिदिन सहस्रशः जनाः अत्र विहाराय आगच्छन्ति। लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति। इदम् उपवनम् चतुर्भागेषु विभिक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्याणां शोभा दर्शकानां मनः प्रसादयति। मधुगन्धिनः भ्रमराः पुष्पेषु उडयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति। अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति। अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति। कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव। |
(1) एकपदेन उत्तरत –
(क) 'लोधीगार्डन' इति उपवनम् कति भागेषु विभक्तम्?
(ख) भ्रमरा: कुत्र डयन्ते?
(ग) रुग्णा: जना: किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति?
(घ) केषां शोभा दर्शकानां मन: प्रसादयति?
(2) पूर्णवाक्येन उत्तरत –
(क) 'लोधी-गार्डन' इति नामके उपवने के प्रमुखा: वृक्षा: सन्ति?
(ख) पुष्पारामे उपलष्धानां केषाज्चित पुष्पाणां नामानि लिखत।
(3) भाषिककार्यम्-
(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।
(ख) ''मधुगन्धन: भ्रमरा:' अत्र किं विशेषणपदं प्रयुकतम?
(ग) ''स्वस्था:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम?
(घ) 'सहस्रश: जना: भ्रमणाय आगच्छन्ति' अत्र कर्तृपदं किम।
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
| अम्ब अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदं वचः निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानुजः क्रीडनाय बहिर्गच्छति स्म तदा अहं स्वपितृभ्यां गृहकार्यार्थ पठनार्थ चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाहे शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्। परमद्यापि एका कुण्ठा मनसि यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शनं कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्य: नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। कः दोषः असीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्। अस्तु तावत्! चिन्तयाऽलम्। अहं पुत्र्यै तादृश्यः सर्वाः सुविधाः अवश्यमेव प्रदास्यामि येन तस्याः मनसि एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्। |
(1) एकपदेन उत्तरत –
(क) रमा काभ्यां गहकायर्थं पठनार्थं च प्रेरिता?
(ख) रमा कस्यै सर्वा: सुविधा: प्रदास्यति?
(ग) रमाया: पुत्री केन सह क्रीडितुं बहिर्गच्छति?
(घ) रमा कस्य निर्वाहे श्रेष्ठा अभवत्?
(2) पूर्णवाक्येन उत्तरत –
(क) पुत्र्या : किं वच: निशम्य रमा स्वशैशवं प्राप्ता?
(ख) रमाया: मनसि यदा कदा कीदृशी कुण्ठा जायते?
(3) भाषिककार्यम्-
(क) 'एतादृश्या: कुण्ठाया: अवकाश: एव न स्यात' -अत्र किं विशेष्यपदम्?
(ख) ''मत्सदृश्य: नार्य:' वायुयानं चालयन्ति "इति वाक्ये किं कर्तृपदम्??
(ग) 'द्वारं पिधेहि कृपया' अत्र किं क्रियापदम?
(घ) 'अस्तु तावत् अनयो: पदयो: किम् अव्ययपदम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
| नकुलः प्रतिदिन प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्व दृष्ट्वा आहती भवतः। पुत्रं बेधवितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि शृणोति। एकदा पुत्र प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्या सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातु: एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मा मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्द मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात्। मातः। कर्तव्याकर्तव्यमपि विस्मृतं मया। दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्-‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातः वात्सल्यमयेन बोधनने नकुलः दुर्जनसंसर्ग त्यक्तुं दृढनिश्चयं करोति। |
(1) एकपदेन उत्तरत –
(क) 'धिङ् मम जीवितम्' इति का वदति?
(ख) कौ आहतौ भवतः?
(ग) माता पुत्रं किं त्यक्तुम अकथयत्?
(घ) नकुल: मित्राणि प्रति किं वक्तुमिच्छति स्म?
(2) पूर्णवाक्येन उत्तरत –
(क) नकुलः मित्रैः सह धूम्रपानं, मद्यपानं च करोति स्म।
(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति?
(3) भाषिककार्यम्-
(क) 'अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति'- अत्र किमव्ययपदम् ?
(ख) ''साश्रुनयन: पुत्र: वदति' - अत्र किं विशेषणपदम्?
(ग) 'अनेकश:' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(घ) गद्यांशे 'शत्रून' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
|
एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनि श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तित वृक्षं दृष्ट्वा रुदन्निव वदति स्म, घः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दु:खितोऽहम्। सः तु आपणं गतवान पर न कोऽप्यस्त्यत्र योऽस्य व्रणानामपचार करोतु। किमर्थ विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रवणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दुर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्त भविष्यति। इदं सर्व श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्। |
(1) एकपदेन उत्तरत –
(क) 'काष्ठहार: किं श्रुत्वा तिष्ठति?
(ख) वृक्षस्य वार्तां श्रुत्वा काष्ठहार: कीदृश: अभवत?
(ग) काष्ठहार: काष्ठानि नीत्वा कुत्र गतवान?
(घ) वृक्षा: कस्य शुद्धीकरणाय भवन्ति?
(2) पूर्णवाक्येन उत्तरत –
(क) वृक्ष: किमर्थं दु:खित: आसीत?
(ख) वृक्षाणां कर्तनेन केषां महत्वं विलुप्तं भविष्यति?
(3) भाषिककार्यम्-
(क) 'वृक्ष: समीपस्थं वृक्षं दृष्ट्वा रूदन्निव वदति' - अस्मिन् वाक्ये किं विशेषणपदम्?
(ख) 'आश्रिता:' इति पदस्य कृते किं विलोमपदम अनुचछेदे प्रयुक्तम् ?
(ग) 'विलोक्य' इत्यर्थे किं पदम अनुच्छेदे प्रयुक्तम् ?
(घ) 'ह्य: एक: काष्ठहार: मम मित्रस्य शारीरमच्छिनत्'' - अत्र किम अव्ययपदम ।
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।
| विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति-चलभाषियन्त्रम् (मोबाइल इति।) अस्य मुख्य प्रयोजनमासीत् दूरवर्तिना केनापि जनेन सह वार्तालापः सुकरः भवेत् इति। परमद्यत्वे तु चलभाषियन्त्र लघुसङ्गणकमिव वर्तते। एवं प्रातीयते यत् जनाः हस्ते एक सम्पूर्ण जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्ता कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि। ईमेल-फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकर संदेशवाहकमपि। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति। न केवलमेतदेव अपितु एतत् यन्त्र मनोरञ्जनकारि अपि। बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति। परमेतदपि विचारणीयं यस्य अधिकाधिक प्रयोगः हानिकरः भवति। ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः। |
(1) एकपदेन उत्तरत –
(क) किम अतीव सुकरं सन्देशवाहकम?
(ख) जना: वार्तया सह साक्षात कं पश्यन्ति?
(ग) किं प्राप्य जना: स्वगन्तव्यं प्राप्नुवन्ति?
(घ) अस्य अधिकाधिकप्रयोग: कीदृश: भवति?
(2) पूर्णवाक्येन उत्तरत –
(क) अस्य मुख्यं प्रयोजनं किमासीत?
(ख) अस्य प्रयोगेण के कथं च मनोर०जनक्षमा: भवन्त्त?
(3) भाषिककार्यम्-
(क) 'लब्ध्वा' इत्यर्थे किं पदं गद्यांशेऽस्मिन प्रयुक्तम?
(ख) 'केनापि जनेन सह वार्तालाप: सुकर: भवेत्' इत्यत्र किं विशेषणपदम्?
(ग)' अस्य यथावश्यकं प्रयोग: एव करणीय:' इति अत्र किं क्रियापदम?
(घ) 'चलभाषियन्त्रं लघुसाङणकमिव वर्तते' इति अत्र किम् अव्ययपदम्।
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
Concept: undefined >> undefined
योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत।
Concept: undefined >> undefined
अधोलिखितं चित्रं वर्णयन् संस्कृतने पञ्चवाक्यानि लिखत –
| मञ्जूषा – उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम् |

Concept: undefined >> undefined
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
| मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम् |

Concept: undefined >> undefined
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
| मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति |

Concept: undefined >> undefined
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
| मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति |

Concept: undefined >> undefined
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
| मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति |

Concept: undefined >> undefined
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
| मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः |

Concept: undefined >> undefined
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
| मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम् |

Concept: undefined >> undefined
