English

पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति एकपदेन उत्तरत – लोधीगार्डन’ इति उपवनम् कति भागेषु विभक्तम् - Sanskrit

Advertisements
Advertisements

Question

अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-

पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति। नवतिः एकड-परिमित बृहदाकारकम् इदमुपवनम्। अत्र शताधिक वर्षेभ्यः प्राचीनाः पादपाः सन्ति। तेषु वटवृक्षः अश्वत्थः निम्ब: किंशुक: आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति। प्रतिदिन सहस्रशः जनाः अत्र विहाराय आगच्छन्ति। लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति। इदम् उपवनम् चतुर्भागेषु विभिक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्याणां शोभा दर्शकानां मनः प्रसादयति। मधुगन्धिनः भ्रमराः पुष्पेषु उडयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति। अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति। अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति। कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव।

(1) एकपदेन उत्तरत –

(क) 'लोधीगार्डन' इति उपवनम् कति भागेषु विभक्तम्?

(ख) भ्रमरा: कुत्र डयन्ते?

(ग) रुग्णा: जना: किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति?

(घ) केषां शोभा दर्शकानां मन: प्रसादयति?

(2) पूर्णवाक्येन उत्तरत –

(क) 'लोधी-गार्डन' इति नामके उपवने के प्रमुखा: वृक्षा: सन्ति?

(ख) पुष्पारामे उपलष्धानां केषाज्चित पुष्पाणां नामानि लिखत।

(3) भाषिककार्यम्-

(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।

(ख) ''मधुगन्धन: भ्रमरा:' अत्र किं विशेषणपदं प्रयुकतम?

(ग) ''स्वस्था:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम?

(घ) 'सहस्रश: जना: भ्रमणाय आगच्छन्ति' अत्र कर्तृपदं किम।

(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।

Answer in Brief
Advertisements

Solution

(1)

(क) चतुर्पु (चतुर्भागेषु) ।

(ख) पुष्पेषु ।

(ग) भ्रान्त्वा ।

(घ) पुष्पाणाम् ।

(2) 

(क) एतदर्शम, शुद्धं उत्तरं "‘लोधी-गार्डन’ इति नामके उपवने वटवृक्षः अश्वत्थः निम्बः किंशुकः आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः विल्वः अर्जुन: च प्रमुखा: वृक्षाः सन्ति" इति भविष्यतिः

(ख) यूथिका च सन्ति।

(3) 

(क) नवतिः ।

(ख) मधुगन्धिनः।

(ग) रुग्णाः।

(घ) जनाः।

(4)

लोधी गार्डन’, ‘देहल्याः प्रसिद्धम् उपवनम् लोधी गार्डन 

shaalaa.com
अपठितावबोधनम्
  Is there an error in this question or solution?
Chapter 1: अपठितावबोधनम् - अभ्यासः 1 [Page 7]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 1 अपठितावबोधनम्
अभ्यासः 1 | Q VI. | Page 7

RELATED QUESTIONS

अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-

गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्रनिर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारित कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोत: सदर्पमाह-आः! किमेवमुच्यते।

वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्॥

एतदाकये सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन्। यतो हि-बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते।

(1) एकपदेन उत्तरत –

(क) आपत्काले केषां वचनं ग्राह्यम्?

(ख) विशाल: शाल्मलीतरु: कुत्रासीत्?

(ग) व्याध: कान् विकीर्य प्रच्छन्नो भूत्वा स्थित:?

(घ) सर्वथा कीदृशं कर्म न कर्तव्यम?

(2) पूर्णवाक्येन उत्तरत –

(क) कपोतराजः कान् प्रत्याह?

(ख) के कदा क्लिश्यन्ते?

(3) भाषिककार्यम् –

(क) ‘विशाल: शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम्?

(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत।

(ग)‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपद चित्वा लिखत।

(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?

(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।


भाषिककार्यम्-

‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?


अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।

जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्र धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समयः गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नी चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! कि जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्य करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रो: सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्।

(1) एकपदेन उत्तरत –

(क) धनेश: कयो: सेवायां समयं यापयति स्म?

(ख) क: विद्वान पितृभक्तश्चासीत??

(ग) क: धनेशं जीवनस्य अभिप्रायम अपृच्छत्??

(घ) आचार्यस्य नाम किम आसीत्?

(2) पूर्णवाक्येन उत्तरत –

(क) धनेशस्य समय: कथं गच्छति स्म?

(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेश: साश्चर्यम किम उदतरत?

(3) भाषिककार्यम्-

(क) 'तस्य पुत्र: धनेश:' इत्यत्र 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम्?

(ख) ''श्रुत्वा' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम् ?

(ग) 'पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम् ' अत्र क्रियापदं चित्वा लिखत |

(घ) ''मातु:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।


अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-

अमर्त्यसेनः इति नाम एव संस्कृतमयम्। अस्य जन्म शान्तिनिकेतने अभवत्। शान्तिनिकेतनस्य संस्थापक: गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्-‘अमर्त्यसेनः इत्येतत् पद संस्कृत मूलम्। शान्तिनिकेतने वसन् अमर्त्य सेनः संस्कृताभ्यास कृतवान् सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थ स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्। अध्यापन-कार्य समाप्य श्रीअमर्त्यसेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विद्वत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मान दत्तवान् जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च।

(1) एकपदेन उत्तरत –

(क)अमर्त्यसेनस्य जन्म कुत्र अभवत?

(ख) अमत्यसेनाय 'भारतरत्नम्' इति सम्मानं क: दत्तवान्?

(ग) अमर्त्यसेन: उच्चशिक्षार्थं कुत्र अगच्छत?

(घ) अमर्त्यसेन: कुत्र संकृताभ्यासं कृतवान ?

(2) पूर्णवाक्येन उत्तरत –

(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथ: ठाकुर: किम उक्तवान् ?

(ख) अध्यापनसमये स: किं कृतवान? 

(3) भाषिककार्यम्-

(क) 'अस्य जन्म शान्तिनिकेतने अभवत्।' इत्यस्मिन् वाक्ये 'अस्य' इति सर्वनामपदं कस्मै प्रयुक्तम?

(ख) अमर्त्यसेन: संस्कृताभ्यासं कृतवान्।' गद्यांशेऽस्मिन् कर्तृपदं चित्वा लिखत।

(ग) ''अगच्छत '' इति क्रियापदस्य किं विलोमपदम अत्र प्रयुक्तम्?

(घ) 'महतीं गवेषणाम्' अत्र विशेषणपदं किम्?

(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।


अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-

एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनि श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तित वृक्षं दृष्ट्वा रुदन्निव वदति स्म, घः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दु:खितोऽहम्। सः तु आपणं गतवान पर न कोऽप्यस्त्यत्र योऽस्य व्रणानामपचार करोतु। किमर्थ विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रवणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दुर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्त भविष्यति। इदं सर्व श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्।

(1) एकपदेन उत्तरत –

(क) 'काष्ठहार: किं श्रुत्वा तिष्ठति?

(ख) वृक्षस्य वार्तां श्रुत्वा काष्ठहार: कीदृश: अभवत?

(ग) काष्ठहार: काष्ठानि नीत्वा कुत्र गतवान?

(घ) वृक्षा: कस्य शुद्धीकरणाय भवन्ति?

(2) पूर्णवाक्येन उत्तरत –

(क) वृक्ष: किमर्थं दु:खित: आसीत?

(ख) वृक्षाणां कर्तनेन केषां महत्वं विलुप्तं भविष्यति?

(3) भाषिककार्यम्-

(क) 'वृक्ष: समीपस्थं वृक्षं दृष्ट्वा रूदन्निव वदति' - अस्मिन् वाक्ये किं विशेषणपदम्?

(ख) 'आश्रिता:' इति पदस्य कृते किं विलोमपदम अनुचछेदे प्रयुक्तम् ?

(ग) 'विलोक्य' इत्यर्थे किं पदम अनुच्छेदे प्रयुक्तम् ?

(घ) 'ह्य: एक: काष्ठहार: मम मित्रस्य शारीरमच्छिनत्'' - अत्र किम अव्ययपदम ।

(4) उपर्युक्तगद्यांशस्य  उचितं शीर्षकं दीयताम्।


अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।

विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति-चलभाषियन्त्रम् (मोबाइल इति।) अस्य मुख्य प्रयोजनमासीत् दूरवर्तिना केनापि जनेन सह वार्तालापः सुकरः भवेत् इति। परमद्यत्वे तु चलभाषियन्त्र लघुसङ्गणकमिव वर्तते। एवं प्रातीयते यत् जनाः हस्ते एक सम्पूर्ण जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्ता कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि। ईमेल-फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकर संदेशवाहकमपि। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति। न केवलमेतदेव अपितु एतत् यन्त्र मनोरञ्जनकारि अपि। बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति। परमेतदपि विचारणीयं यस्य अधिकाधिक प्रयोगः हानिकरः भवति। ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः।

(1) एकपदेन उत्तरत –

(क) किम अतीव सुकरं सन्देशवाहकम?

(ख) जना: वार्तया सह साक्षात कं पश्यन्ति?

(ग) किं प्राप्य जना: स्वगन्तव्यं प्राप्नुवन्ति?

(घ) अस्य अधिकाधिकप्रयोग: कीदृश: भवति?

(2) पूर्णवाक्येन उत्तरत –

(क) अस्य मुख्यं प्रयोजनं किमासीत?

(ख) अस्य प्रयोगेण के कथं च मनोर०जनक्षमा: भवन्त्त?

(3) भाषिककार्यम्-

(क) 'लब्ध्वा' इत्यर्थे किं पदं गद्यांशेऽस्मिन प्रयुक्तम?

(ख) 'केनापि जनेन सह वार्तालाप: सुकर: भवेत्' इत्यत्र किं विशेषणपदम्?

(ग)' अस्य यथावश्यकं प्रयोग: एव करणीय:' इति अत्र किं क्रियापदम?

(घ) 'चलभाषियन्त्रं लघुसाङणकमिव वर्तते' इति अत्र किम् अव्ययपदम्।

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति। धात्रीफलम् ‘आमलकम्’ इत्यपि कथ्यते। शरीरस्य स्वास्थ्यरक्षणाय फलस्यास्य प्रयोगः अवश्यमेव कर्त्तव्यः। इंद फल नेत्रयोः ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति। सामान्यतया अस्य प्रयोगः अवलेहरूपेण, उपदंशरूपेण च भवति। इदं रक्तकोशिकानिर्माणे अपि सहायकं भवति। अस्य सेवनेन शरीरे रक्ताल्पता न भवति। ग्रीष्मर्ती फलमिदं शरीरस्य तापम् अपनयति। अस्य नियमितसेवनेने स्मरणशक्तिरपि वर्धते। प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ छात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत्। केषुचित् स्थलेषु अधुना अपि एषा परम्परा परिपाल्यते। वृक्षस्य अधः भोजनं पच्यते चेत् भोजनं सुस्वादु स्वास्थ्यवर्धकं च भवतीति अस्माकं पूर्वजानां चिन्तनमासीत्। एतदतिरिच्य सहभोजनेन प्रेम्णः भावोऽपि जागर्ति वर्धते च इत्यपि जनाः आमनन्ति। सर्वतोऽधिकं परम्परेयं धात्रीफलस्य महिमानं प्रकटीकरोति।

(i) एकपदेन उत्तरत-

(क) धात्रीफलं कदा लाभदायकं भवति?

(ख) धार्रीफलस्य अपर नाम किम्?

(ग) धारीफलं कस्मिन् सहायकं भवति?

(घ) सहभोजनेन कीदृश: भाव: जागर्तिं?

(ii) पूर्णवाक्येन उत्तरत - 

(क) धात्रीफलं कथं बहपयोगि अस्ति?

(ख)  प्राचीनकाले कीदृशी परम्परा असीत?

(iii) यथानिर्देशं प्रश्नान् उत्तरत - 

(क) 'सर्वषु क्रतुष' इत्यनयो: पदयो: किं विशेषणपदम?

(ख) 'क्षीयते' इति क्रियापदस्य बिलोमपदं पाठात चित्वा लिखता

(ग) 'स्नेहस्य' इति पदस्य कृते गद्यांशे किं पदं प्रयुक्तम्?

(घ) असस्य सेवनेन शरीर सक्ताल्पता न भवति' इत्यस्मिन वाक्ये 'अस्य" इति सर्वनामपदं कस्मे प्रयुक्तम?

(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य सर्वाणि कार्याणि परिश्रमेण एव सिध्यन्ति। सफलता परिश्रमिणः पुरुषस्य चरणौ चम्बति। विद्यार्थी परिश्रमेण ज्ञानं लभते, धनार्थी चापि परिश्रमेण एव धनं प्राप्नोति। शक्तेः प्राप्तये अपि परिश्रमः आवश्यकः। ‘उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः’ इति उक्तिः स्पष्ट व्यनक्ति यत् धनस्य देवी लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अत एव साफल्यं लब्धं परिश्रमम् अवश्यं करणीयम्। अत्यधिकः मेधावी अपि यदि सततं पठनाभ्यास न करोति तदा असफलः भवति, परं सामान्यमेधासम्पन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति-“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः’ इति प्राचीनोक्तिः सदैव स्मारयति-कर्मसहचरी इच्छा एव साकाररूपताम् एति। श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं स्मारयति। अत एव छात्राः सर्वदा परिश्रमस्य अवलम्बनं कुर्वन्तु, भागयस्यशरणं मा गच्छन्तु।

(i) एकपदेन उत्तरत-

(क) साफल्यं लिधुं किं करणीयम?

(ख) सर्वाणि कार्याणि केन सिध्यन्ति'|

(ग) क: असफल: भवति?

(घ) अध्ययनशील: छात: किं प्राप्नोति?

(ii) पूर्णंवाक्येन उत्तरत

(क)  क: सर्वेषां भारतीयानां श्रदाभाजन:?

(ख) मूर्ते: उच्चता किं सूच्चयति?

(iii) यथानिर्देश्गं प्रश्नान् उत्तरत -

(क) 'केन्नीयां भूमिकाम्' इत्यनयो: पदयो: कि बिशेष्यपदम? 

(ख) 'तस्यैव जन्मदिवसे ______ सर्पिता'? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपद कर्मे प्रयुकतम?

(ग) 'समीषे' इत्यस्य बिलोमपदं गद्यांशात् चित्चा लिखता

(घ) 'महान् स्बतन्रतासेनानी जन्म अलभत' इत्यस्मिन् बाक्ये किं क्रियापदम?

(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

 जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्राप्यन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीयज्ञानेन समं नैतिकमूल्यान्यपि छात्रैः गृहीतव्यानि। बाल्यावस्थायां मूल्याना शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीणः विकासः भवति। मानवः स्वकीयं पुरुषार्थं करोति जीवनलच्यं च प्राप्नोति। भारतीयसंस्कृती आदिकालतः एव जीवनमूल्यानां प्राधान्यमस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते।

(i) एकपदेन उत्तरत-

(क) मानब: स्वकीयं पुरुषाथे कृत्चा किं प्राप्नोति ?

(ख) कस्य उत्थानाय द्यादिगुणानां महती आवश्यकता ?

(ग) सर्वाक्नीणबिकासाय केन समं नैतिकमूल्यान्यपि गहीतव्यानि?

(घ) केषु बाल्यादेव एते संस्कारा: स्थापनीया:?

(ii) पूर्णंवाक्येन उत्तरत

(क) मनुष्य: बास्तव: मनुष्य: कै: गुणै: भवति?

(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?

(iii) यथानिर्देश्गं प्रश्नान् उत्तरत 

(क)  'सर्वाज्भीण: विकासः' अत्र बिशेषणपदं किम?

(ख) 'भारत विश्वगुस्पदे प्राप्नोत्' अत्र प्राप्नोत् इति क्रियापदस्य कर्तपदद किम?

(ग) गद्यांशे 'सज्जितः' इति पदस्य कृते पर्यांयपद्द कि प्रयुक्तम्?

(घ) मानबजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति' अत्र 'एतेषां' सर्वनामपदं कस्मै प्रयक्तम्?

(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। कक्षायाः सर्वे छात्राः सम्पन्नपरिवारेभ्यः आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्। इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्रायः अकिञ्चनस्य मनसि हीनभावना प्राविशत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्। मम सहपाठिना जीवन पर्वतस्य इव उच्चम् मम च जीवन धूलिवत् निम्नम्। यदा सः एवं चिन्तयति स्म तदैव वैभवः तम् अवदत् भोः मित्र! अहं त्वत्तः गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चनः वैभवस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अपश्यत् यत् वैभवस्य गृहे मातापितरौ अनुपस्थिती आस्ताम्। वैभवः तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छतः। वैभवस्य विषादपूर्ण जीवनं दृष्ट्वा अकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं वरम् न तु वैभवस्य। सत्यमेवास्ति-दूरतः पर्वताः रम्याः। इति

(i) एकपदेन उत्तरत-

(क) अकिञ्चनस्य कक्षाया: अन्ये छात्रा: कीदृश-परिवारेभ्य: आसन्?

(ख) अकिञ्चनस्य मनसि किम् प्राविशत?

(ii) पूर्णवाक्येन उत्तरत - 

(क) अकिञ्चनस्य पिता क: आसीत?

(ख) अकिञ्चन: हीनभावनया किम् अचिन्तयत्?

(iii) यथानिर्देशं प्रश्नान् उत्तरत - 

(क) ''सम्पन्नान' इति पदस्य विशेष्यपदं किम अस्ति ?

(ख) 'आस्ताम्' इति पदस्य कर्तृपदं किम अस्ति?

(ग) 'निकटत:' इति पदस्य कि विलोमपद्द गद्याँशे प्रयुक्तम्न?

(घ) 'वैभब: तम् अवदत्' इति वाक्यांशे 'तम्' इति सर्वनामपदं कस्मै प्रयुक्तम्?

(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

विधात्रा निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी। प्रकृतेः शोभा वस्तुतः अतीव आह्वावकारी, परं निरन्तरं विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धित येनास्माकमेव स्वास्थ्यहानिः भवति। वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूणयम् एतत् त्रिविधं प्रदूषणमेव मुख्यतया सर्व वातावरणम् आकुलीकरोति। वायुप्रदूषणेन श्वासग्रहणे काहिन्यं वर्धते। एतत् सर्वेषां स्वास्थ्याय हानिकर सिध्यति। ध्वनिप्रदूषणं मार्गेषु वाहनाना ‘पों पों’ इति शृङ्गवादनेन, ध्वनिविस्तारकयन्त्रैश्चापि, भवति। अनेन श्रवणशक्तेः हानिर्भवति। प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतमेव।
तस्मादस्माकं सर्वेषामेव कर्तव्यमिदं यदत्रतत्रसर्वत्र अवकररहितस्य वातावरणस्य निर्माणं वयं कुर्याम, येन वायुप्रदूषणम् अस्माकं स्वास्थ्यं नाशयितुं सक्षम न भवेत्। तथैव ध्वनिप्रदूषण जलप्रदूषणञ्चापि रोद्धम् वयं सर्वे मिलित्वैव प्रयासं कृत्वा-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम्।

(i) एकपदेन उत्तरत-

(क) मुख्यतया प्रदूषणं कतिविधं भवति?

(ख) धार्रीफलस्य अपर नाम किम्?

(ग) केन निर्मिता इयं सृष्टि: अतीब सौन्दर्यमयी?

(घ) सर्वै: मिलित्वा प्रदषणणाबरोधाय किम बिधेथम?

(ii) पूर्णवाक्येन उत्तरत - 

(क) अद्यत्वे अस्माकं स्वास्थ्यहानि: कथं भबति?

(ख) वयं मिलित्वा कां भावनां बलं प्राप्नुयाम?

(iii) यथानिर्देशं प्रश्नान् उत्तरत - 

(क) सततम्/अनबरतम् इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?

(ख) 'क्षीयते' इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत।

(ग) ''सौन्दर्यमयी सृष्टि:' अत्र विशेष्यपदं किम?

(घ) 'बिकासेन सह प्रदूषणमपि वधिंतम् येन स्वास्थ्यहानि: भवति' अत्र 'भवति' इति क्रियापदस्य कर्तिपदं किम ?

(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

मानवः विकासशीलः। वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखमिव सततं प्रवर्धमाना अस्ति। अस्मात् कारणात् प्रचुरनिवास-स्थानानाम् आवश्यकता अनुभूयते। एतत्कृते सततविकासे रतः मानवः नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकाभवनानां निर्माणं कृतवान्। एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाधिकपरिवारेभ्यः निवासव्यस्था कतुं शक्यते। अत्र उन्नयनयन्त्रेण (लिफ़्ट इति अनेन) उपरिगमनम् अधः आगमनं च अतीव सकर भवति। अत एव जनाः एतादृशानि भवनानि प्रति आकृष्टाः भवन्ति। अद्यत्वे नगरेषु महानगररेषु च बहुभूमिकभवनानां प्रचलनमेव वर्तते। एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदन, ‘जिम’ इति व्यायामस्थानाम्, उद्यानम् इत्यादीनि उपयोगीनि सुविधाप्रदायकसाधनानि अपि भवन्ति। अतिशोभनमेतत् सर्व पर विकास प्रति अन्धधावनशीलः मानवः प्रकृतेः उपेक्षा करोति इति अनुचितं प्रतीयते। अस्माभिः प्रकृतिमातुः संरक्षणपूर्वकं विकासस्य दिशि प्रयतितव्यम्।

(i) एकपदेन उत्तरत-

(क) जनसहंख्या कथम् वर्धते?

(ख) बहुभूमिकभ्भवनेषु उपरिगमनम् अध: आगमन केन सुकरं भवति?

(ग) विकासं प्रति अन्धधावनशील: मानव: कस्या: उपेक्षां करोति?

(घ) नगरेषु महानगरेषु च केषां प्रचलनं वर्तते?

(ii) पूर्णवाक्येन उत्तरत - 

(क) प्रच्रुनिवासस्थानस्य कृते मानब: कि कृतवान?

(ख) बहुभूमिकभवनानां परिसरे कानि सुबिधासाधनानि भवन्ति?

(iii) यथानिर्देशं प्रश्नान् उत्तरत - 

(क) 'मानब: बहुभमिकभवनानां निर्मांणं कृतवान्' - अत्र किं क्रियापदम्?

(ख) 'एतादृशानि भवनानि - अनयो: पदयो: किं विशेष्यपदम्?

(ग) 'अच्वत्वे बहुभमिकभवनानां प्रचलनं वर्तते - अत्न किम् अब्ययपदम्?

(घ) उचितम्' - इति पदस्य किं विपरीतार्थकं पदम् अनुच्छेदे प्रयुक्तम्?

(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।


अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्‌। तेषु दुष्यन्तः नाम एकः नृपः आसीत्‌। तस्य भार्या शकुन्तला आश्रमे पुत्रम्‌ अजनयत्‌। तस्य नाम भरतः आसीत्‌। भरतः शैशवास्थायाम्‌ अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम्‌ उदघाटयत्‌ अवदत्‌ च- ‘जृम्भस्व सिंह! दन्तान्‌ ते गणयिष्यामि।’ सिंहशावकः अपि जानाति स्म यत्‌ भरतः अपि मया सहशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत्‌ न च आक्राम्यत्‌। तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म - नाहं सिंहात्‌ विभेमि। इत्थम्‌ आसीत्‌ सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एवं अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्‌’ अभवत्‌।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) (2)

  1. निर्भयः वीरः च कः आसीत्‌?
  2. भरतः कैः सह क्रीडति स्म?
  3. भरतस्य मातुः नाम किम्‌ आसीत्‌?

आ. पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्‌) (4)

  1. भरतः सिंहशावकं किम्‌ अवदत्‌?
  2. सिंहशावकः भरताय किमर्थं नाकरुध्यत् न च आक्राम्यत्‌?
  3. भरतः तापस्यौ किं कथयति स्म?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌) (3)

(i) ‘इत्थम्‌ आसीत्‌ सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम्‌?

(क) इत्थम्‌
(ख) आसीत्‌
(ग) निर्भयः
(घ) वीरः

(ii) ‘सहशः’ इति विशेषणपदस्य विशेष्यपदं किम्‌?

(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः

(iii) ‘नृपाः’ इति पदस्य किं पर्यायपद गद्यांशे प्रयुक्तम्‌?

(क) सिंहशावकः
(ख) दन्तान्‌
(ग) राजानः
(घ) प्रसिद्धाः

(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत्‌?

(क) अहम्‌
(ख) ते
(ग) सः
(घ) दन्तान्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×