Advertisements
Advertisements
Question
उद्यमस्य महत्त्वं वर्णयत। पञ्चश्लोकान् लिखत।
Activity
Advertisements
Solution
- उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥ - न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति॥ - श्रमेण लभ्यं सकलं न श्रमेण विना क्वचित्।
सरलाङ्गुलि-संस्पर्शात् न निर्याति धनं घृतम्॥ - षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधम् आलस्यं दीर्घसूत्रता॥ - यत्रोत्साहसमारम्भो यत्रालस्य-विहीनता।
नय-विक्रम-संयोगस्तत्र श्रीरचला ध्रुवम्॥
shaalaa.com
Is there an error in this question or solution?
Chapter 6: सुभाषितानि - परियोजनाकार्यम् [Page 46]
