Advertisements
Advertisements
Question
स्वपितरं प्रति लिखितं पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पत्रं पुस्तिकायां लिखत।
पाणिनिछात्रावासः,
वाराणसीतः।
दिनाङ्कः .....।
माननीयाः पितृवर्गाः!
सादरं (i) .....।
अत्र कुशलं तत्राप्यस्तु। मम (ii) ..... समाप्ता अभवत्। परीक्षापत्राणि अतिशोभनानि जातानि। परीक्षायाः परिणामः (iii) ..... प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे अस्माकं विद्यालयस्य (iv) ..... अस्मान् शैक्षिकभ्रमणाय हरिद्वारं नेष्यन्ति। तत्र दक्षप्रजापतिमन्दिरं, (v) ..... ‘हर की पैड़ी’ इत्याख्यः प्रसिद्धः गङ्गातटः, मनसादेवी-मन्दिरं शान्तिकुञ्जञ्च इत्यादीनि अनेकानि प्रसिद्धानि स्थलानि सन्ति। अहमपि तत्र गन्तुम् (vi) .....। एतदर्थं मया पञ्चसहस्रं (vii) ..... दातव्यानि सन्ति। कृपया (viii) ..... धनराशिं यू. पी. आई.-माध्यमेन सम्प्रेष्य माम् (ix) ..... कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ..... निवेदनीयः।
भवतां प्रियपुत्री
शर्मिष्ठा
मञ्जूषा:
| उपर्युक्ताम्, प्रणामाञ्जलिः, अध्यापकाः, रूप्यकाणि, इच्छामि, प्रणामामि, आगामिमासस्य, अर्धवार्षिकपरीक्षा, पतञ्जलियोगग्रामः, अनुगृहीताम्। |
Advertisements
Solution
पाणिनिछात्रावासः,
वाराणसीतः।
दिनाङ्कः 27-10-2026।
माननीयाः पितृवर्गाः!
सादरं (i) प्रणामामि।
अत्र कुशलं तत्राप्यस्तु। मम (ii) अर्धवार्षिकपरीक्षा समाप्ता अभवत्। परीक्षापत्राणि अतिशोभनानि जातानि। परीक्षायाः परिणामः (iii) आगामिमासस्य प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे अस्माकं विद्यालयस्य (iv) अध्यापकाः अस्मान् शैक्षिकभ्रमणाय हरिद्वारं नेष्यन्ति। तत्र दक्षप्रजापतिमन्दिरं, (v) पतञ्जलियोगग्रामः ‘हर की पैड़ी’ इत्याख्यः प्रसिद्धः गङ्गातटः, मनसादेवी-मन्दिरं शान्तिकुञ्जञ्च इत्यादीनि अनेकानि प्रसिद्धानि स्थलानि सन्ति। अहमपि तत्र गन्तुम् (vi) इच्छामि। एतदर्थं मया पञ्चसहस्रं (vii) रूप्यकाणि दातव्यानि सन्ति। कृपया (viii) उपर्युक्ताम् धनराशिं यू. पी. आई.-माध्यमेन सम्प्रेष्य माम् (ix) अनुगृहीताम् कुर्वन्तु। गृहे सर्वेभ्यः मम (x) प्रणामाञ्जलिः निवेदनीयः।
भवतां प्रियपुत्री
शर्मिष्ठा
