Advertisements
Advertisements
Question
| शिष्यः | नमस्ते आचार्य! |
| आचार्यः | ..... भव। कथम् अकस्मात् आगमनम्? |
| शिष्यः | आचार्य! अहं बहुचिन्तितोऽस्मि। न ..... किं करवाणि? |
| आचार्यः | किमर्थं चिन्ता? कश्च तव ..... विषयः? |
| शिष्यः | आगमिशिक्षणस्य विषये ..... अस्ति मम मनसि। अनेके जनाः भिन्नं भिन्नं विषयं .....। |
| आचार्यः | कः किं वदति? मां न भ्रामय। स्पष्टं वद। |
| शिष्यः | आचार्य! पिता वदति ..... पठतु, माता च वदति वैद्यकीयं ज्ञानम् आवश्यकम्, मित्राणि अन्यान् विभिन्नान् विषयान् पठितुम् इच्छन्ति। न अवगन्तुं ..... अहम्। |
| आचार्यः | त्वं किम् .....? कं क्षेत्रं गन्तुम् इच्छसि? |
| शिष्यः | अहं तु भाषाविद् भवितुम् इच्छामि, तत्रापि संस्कृत-विषये ..... रुचिः अस्ति। |
| आचार्यः | अस्तु! ध्यानेन शृणु। कः किं वदति इति श्रोतव्यम्। तत्र विचारः करणीयः। तदा च स्वरुच्यनुगुणं कार्यं करणीयम्। किमपि क्षेत्रं साधु असाधु वा न भवति यत्र रुचिः ..... च भवति तत्रैव सफलता भवति। |
| शिष्यः | आचार्य! किम् अहं स्वरुच्यनुगुणं विषयं चेतुं शक्नोमि? |
| आचार्यः | अवश्यं स्वीकुरु। निश्चयेन सफलतां लप्स्यसे त्वम्। |
| शिष्यः | आम् आचार्यः तथैव करोमि, गृहं गत्वा पितरौ निवेद्य विमर्शं च कृत्वा निर्णयं करोमि। प्रणमामि। |
| आचार्यः | सफलः भवतु। |
| द्वन्द्वम्, वदन्ति, अभियान्त्रिकीम्, अधिका, आत्मविश्वासः, यशस्वी, अवगम्यते, चिन्तायाः, शक्नोमि, इच्छसि। |
Writing Skills
Advertisements
Solution
| शिष्यः | नमस्ते आचार्य! |
| आचार्यः | यशस्वी भव। कथम् अकस्मात् आगमनम्? |
| शिष्यः | आचार्य! अहं बहुचिन्तितोऽस्मि। न अवगम्यते किं करवाणि? |
| आचार्यः | किमर्थं चिन्ता? कश्च तव चिन्तायाः विषयः? |
| शिष्यः | आगमिशिक्षणस्य विषये द्वन्द्वम् अस्ति मम मनसि। अनेके जनाः भिन्नं भिन्नं विषयं वदन्ति। |
| आचार्यः | कः किं वदति? मां न भ्रामय। स्पष्टं वद। |
| शिष्यः | आचार्य! पिता वदति अभियान्त्रिकीम् पठतु, माता च वदति वैद्यकीयं ज्ञानम् आवश्यकम्, मित्राणि अन्यान् विभिन्नान् विषयान् पठितुम् इच्छन्ति। न अवगन्तुं शक्नोमि अहम्। |
| आचार्यः | त्वं किम् इच्छसि? कं क्षेत्रं गन्तुम् इच्छसि? |
| शिष्यः | अहं तु भाषाविद् भवितुम् इच्छामि, तत्रापि संस्कृत-विषये अधिका रुचिः अस्ति। |
| आचार्यः | अस्तु! ध्यानेन शृणु। कः किं वदति इति श्रोतव्यम्। तत्र विचारः करणीयः। तदा च स्वरुच्यनुगुणं कार्यं करणीयम्। किमपि क्षेत्रं साधु असाधु वा न भवति यत्र रुचिः आत्मविश्वासः च भवति तत्रैव सफलता भवति। |
| शिष्यः | आचार्य! किम् अहं स्वरुच्यनुगुणं विषयं चेतुं शक्नोमि? |
| आचार्यः | अवश्यं स्वीकुरु। निश्चयेन सफलतां लप्स्यसे त्वम्। |
| शिष्यः | आम् आचार्यः तथैव करोमि, गृहं गत्वा पितरौ निवेद्य विमर्शं च कृत्वा निर्णयं करोमि। प्रणमामि। |
| आचार्यः | सफलः भवतु। |
shaalaa.com
Is there an error in this question or solution?
