English

रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत: माता पुत्र! त्वं कुत्र गच्छसि? पुत्रः मातः! (i) ______। माता परम्‌ अद्य क्रीडायै न गन्तव्यम्‌। पुत्रः किमर्थम्‌? अयं तु मम खेलनस्य समयः अस्ति। - Sanskrit (Communicative)

Advertisements
Advertisements

Question

रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत:

माता पुत्र! त्वं कुत्र गच्छसि?
पुत्रः  मातः! (i) ______।
माता परम्‌ अद्य क्रीडायै न गन्तव्यम्‌।
पुत्रः  किमर्थम्‌? अयं तु मम खेलनस्य समयः अस्ति।
माता (ii) ______।
पुत्रः  जन्माष्टमी किं भवति?
माता ‘जन्माष्टमी’ दिवसे एव श्रीकृष्णस्य जन्म अभवत्‌ अतः सम्पूर्णे देशे भगवतः जन्मदिवसः उल्लासेन मान्यते।
पुत्रः  (iii) ______।
माता  अद्यैव मन्दिराणि पुष्पैः विदयुदीपकैः च सज्जितानि भवन्ति।
पुत्रः  (iv) ______।
माता  शीघ्रं सज्जः भवतु। चलामः।
पुत्रः  (v) ______।

मञ्जूषा

  • अहं मित्रैः सह क्रीडितुं गच्छामि।
  • अहम्‌ अति उत्सुकः अस्मि।
  • मन्दिराणां शोभा वस्तुतः मनोहारिणी दर्शनीयाः च भवति।
  • अहं जानामि परन्तु अद्य जन्माष्टमी अस्ति; अतः वयं मन्दिरं गमिष्यामः।
  • अहो! श्रीकृष्णस्य जन्मोत्सव:। सः तु मम प्रियः।
Writing Skills
Advertisements

Solution

माता पुत्र! त्वं कुत्र गच्छसि?
पुत्रः  मातः! (i) अहं मित्रैः सह क्रीडितुं गच्छामि।
माता परम्‌ अद्य क्रीडायै न गन्तव्यम्‌।
पुत्रः  किमर्थम्‌? अयं तु मम खेलनस्य समयः अस्ति।
माता (ii) अहं जानामि परन्तु अद्य जन्माष्टमी अस्ति; अतः वयं मन्दिरं गमिष्यामः।
पुत्रः  जन्माष्टमी किं भवति?
माता ‘जन्माष्टमी’ दिवसे एव श्रीकृष्णस्य जन्म अभवत्‌ अतः सम्पूर्णे देशे भगवतः जन्मदिवसः उल्लासेन मान्यते।
पुत्रः  (iii) अहो! श्रीकृष्णस्य जन्मोत्सव:। सः तु मम प्रियः।
माता  अद्यैव मन्दिराणि पुष्पैः विदयुदीपकैः च सज्जितानि भवन्ति।
पुत्रः  (iv) मन्दिराणां शोभा वस्तुतः मनोहारिणी दर्शनीयाः च भवति।
माता  शीघ्रं सज्जः भवतु। चलामः।
पुत्रः  (v) अहम्‌ अति उत्सुकः अस्मि।
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×