Advertisements
Advertisements
Question
पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।
(१) अवबोधनम्। (३ तः २) (2)
(i) चतुष्कोणं पूरयत।
कंसबन्धनगृहात् पलायितः अर्भकः .......।
(ii) पूर्णवाक्येन उत्तरत।
वीरसावरकरस्य वाहिन्याः नाम किम्?
(iii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।
विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्।’
|
वीर-सावरकरस्य वाहिनी ‘मोरिया’ समनुदिश्य भारतम्। प्रस्थिता विधृतसत्त्वधारिणी व्याघ्रिकेव निजगह्वरं प्रति॥ सागरः स्तिमित आस सानिलः केवलं द्वितयमेव जङ्गमम्। वीर-सावरकरस्य वाहिनी नित्यदक्षमथ तस्य मानसम्॥ “कंसबन्धनगृहात् पलायितोऽर्भकश्च निशि देवकीसुतः। दैवतं निखिलराष्ट्रवादिनां श्रीशिवाजिरपि शत्रुबन्धनात्॥ बन्धने न हि मया विपत्स्यतेऽहं करोमि न चिरात् पलायनम्।” ‘मोरिया’ सततगामिनी दिनैर् मारसेलिसमवाप सप्तभिः॥ वीचिविग्रहकरस्य सागरे प्राणहानिरपि मे वरं, न तु। न्यायनाट्यकृतशूलरोपणं स्यात् कदाचिदिति तेन चिन्तितम्॥ |
(२) शब्दज्ञानम्। (३ तः २) (2)
(i) सन्धिविग्रहं कुरुत।
प्राणहानिरपि - ....... + .......।
(ii) रेखाङ्कितनामस्थाने एतद् सर्वनाम प्रयुज्य वाक्यं पुनर्लिखत।
बन्धने मया न विपत्स्यते।
(iii) गद्यांशतः विरुद्धार्थकं शब्दं चिनुत।
१) स्थिरम् × .........।
२) मित्रम् × .........।
Advertisements
Solution
(१)
(i) कंसबन्धनगृहात् पलायितः अर्भकः देवकीसुतः (कृष्णः)।
(ii) वीरसावरकरस्य वाहिन्याः नाम ‘मोरिया’ इति अस्ति।
(iii) विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्।’ - असत्यम्
(२)
(i) प्राणहानिरपि - प्राणहानिः + अपि।
(ii) एतस्मिन् न मया विपत्स्यते।
(iii)
१) स्थिरम् × जङ्गमम्
२) मित्रम् × शत्रुः
