English

मञ्जूषायाः पदसहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम्‌ उत्तरपुस्तिकायां लिखत - कस्मिंञ्चित्‌ नगरे चन्द्रः (i) ______ एकः भूपतिः अवसत्‌। तस्य पुत्राः वानरक्रीडारताः प्रतिदिनं वानरसमूहं - Sanskrit (Communicative)

Advertisements
Advertisements

Question

मञ्जूषायाः पदसहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम्‌ उत्तरपुस्तिकायां लिखत -

कस्मिंञ्चित्‌ नगरे चन्द्रः (i) ______ एकः भूपतिः अवसत्‌। तस्य पुत्राः वानरक्रीडारताः प्रतिदिनं वानरसमूहं (ii) ______ भोज्यपदार्थैः सन्तुष्टं कुर्वन्ति स्म। तत्रैव राजगृहे बालवाहनयोग्यं मेषयूथम्‌ अपि (iii) ______। तत्र एकः मेषः जिह्यायाः लोलुपतावशात्‌ अहर्निशं महानसं प्रविश्य तत्र यद्‌ वस्तु पश्यति तदेव (iv) ______ स्म। ततः पाचकाः यत्किञ्चित्‌ काष्ठं मृत्तिकापात्रं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति स्म, तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकाराणां च (v) ______ दृष्ट्वा बुद्धिमान्‌ वानरयूथपतिः अचिन्तयत्‌- “एतेषां कलहो (vi) ______ हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान्‌ वानरान्‌ आहूय एकान्ते अवदत्‌- (vii) ______ प्रतिदिनं मेषेण सह सूपकाराणाम्‌ अयं कलहः नूनम्‌ अस्माकं विनाशस्य कारणं भविष्यति अतः वयत्‌ एतत्‌ (viii) ______ त्यक्त्वा वनं गच्छामः। तस्य इमं परामर्शम्‌ अश्रद्धेयं मत्वा रसनास्वादलुब्धाः वानराः गन्तुं सिद्धाः न अभवन्‌।

मञ्जूषा

भोः बान्धवाः!, आसीत्‌, कलहम्‌, नामकः, राजभवनम्‌, विविधैः, वानराणाम्‌, खादति। 
Fill in the Blanks
Advertisements

Solution

कस्मिंञ्चित्‌ नगरे चन्द्रः (i) नामकः एकः भूपतिः अवसत्‌। तस्य पुत्राः वानरक्रीडारताः प्रतिदिनं वानरसमूहं (ii) विविधैः भोज्यपदार्थैः सन्तुष्टं कुर्वन्ति स्म। तत्रैव राजगृहे बालवाहनयोग्यं मेषयूथम्‌ अपि (iii) आसीत्‌। तत्र एकः मेषः जिह्वायाः लोलुपतावशात्‌ अहर्निशं महानसं प्रविश्य तत्र यद्‌ वस्तु पश्यति तदेव (iv) खादति स्म। ततः पाचकाः यत्किञ्चित्‌ काष्ठं मृत्तिकापात्रं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति स्म, तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकाराणां च (v) कलहं दृष्ट्वा बुद्धिमान्‌ वानरयूथपतिः अचिन्तयत्‌- “एतेषां कलहो (vi) वानराणां हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान्‌ वानरान्‌ आहूय एकान्ते अवदत्‌- (vii) भोः बान्धवाः! प्रतिदिनं मेषेण सह सूपकाराणाम्‌ अयं कलहः नूनम्‌ अस्माकं विनाशस्य कारणं भविष्यति अतः वयत्‌ एतत्‌ (viii) राजभवनं त्यक्त्वा वनं गच्छामः। तस्य इमं परामर्शम्‌ अश्रद्धेयं मत्वा रसनास्वादलुब्धाः वानराः गन्तुं सिद्धाः न अभवन्‌।

shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×