English

मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- पुत्रः - तात! प्रणमामि। पिता - (i) ______ पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति। पिता - उत्तमम्‌। - Sanskrit (Communicative)

Advertisements
Advertisements

Question

मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- 

पुत्रः - तात! प्रणमामि।
पिता - (i) ______
पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति।
पिता - उत्तमम्‌। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति?
पुत्रः - न, कापि समस्या नास्ति परन्तु एकत्र भवताम्‌ अनुमतिं सहाय्यं च इच्छामि।
पिता - कस्मिन् सन्दर्भे, निस्सङ्कोच वद।
पुत्रः - श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) अहम्‌ ______।
पिता - शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) ______
पुत्रः - अहं पूर्वमेव पृष्टवान्‌, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्‌।
पिता - चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) ______।
पुत्रः - तात! किमपि उपायनं स्वीकरणीयम्‌ अस्ति।
पिता - अस्तु! मात्रा सह आपणं गत्वा उत्तमम्‌ उपायनं स्वीकुरु।
पुत्रः - (v) ______।

                                मञ्जूषा -

  1. अस्तु, अहं कार्यालयात्‌ समयेन आगमिष्यामि।
  2. अस्तु, धन्यवादः।
  3. शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
  4. तत्र भवता सह गन्तुम्‌ इच्छामि।
  5. चिरञ्जीव! वद सर्वं कुशलम्‌?
Fill in the Blanks
Advertisements

Solution

पुत्रः - तात! प्रणमामि।
पिता - (i) चिरञ्जीव! वद सर्वं कुशलम्‌?
पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति।
पिता - उत्तमम्‌। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति?
पुत्रः - न, कापि समस्या नास्ति परन्तु एकत्र भवताम्‌ अनुमतिं सहाय्यं च इच्छामि।
पिता - कस्मिन् सन्दर्भे, निस्सङ्कोच वद।
पुत्रः - श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) तत्र भवता सह गन्तुम्‌ इच्छामि।
पिता - शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
पुत्रः - अहं पूर्वमेव पृष्टवान्‌, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्‌।
पिता - चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) अस्तु, अहं कार्यालयात्‌ समयेन आगमिष्यामि।
पुत्रः - तात! किमपि उपायनं स्वीकरणीयम्‌ अस्ति।
पिता - अस्तु! मात्रा सह आपणं गत्वा उत्तमम्‌ उपायनं स्वीकुरु।
पुत्रः - (v) अस्तु,धन्यवादः।
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी

      Forgot password?
Use app×