कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत - (क) सः सेनायाः भोजनसामग्र्याः अभावेन खिन्नः अस्ति। (ख) जयघोषं श्रुत्वा प्रतापः कथयति-अयि भ्रातः! कथं जयघोषं कृत्वा मां लज्जयसे इति।
Advertisements
Question
कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत -
(क) सः सेनायाः भोजनसामग्र्याः अभावेन खिन्नः अस्ति।
(ख) जयघोषं श्रुत्वा प्रतापः कथयति-अयि भ्रातः! कथं जयघोषं कृत्वा मां लज्जयसे इति।
(ग) सहचराः महाराणाप्रतापस्य एतादृशीं स्थितिं दृष्ट्वा व्याकुलाः भवन्ति।
(घ) महाराणा प्रतापः अरण्ये विचारमग्नः शिलायाम् उपविष्टः अस्ति।
(ङ) तदैव कश्चित् मेवाडराजपुत्रः तत्र प्रविशति।
(च) तदा राजपुत्रः वदति - स्वदेशं स्वाधीनं कर्तुं भवता किं न सोढम्? विजेष्यते ननु भवान्।
(छ) अधुना सः स्वकीयैः प्राणैरेव स्वदेशं स्वतन्त्रं कर्तुम् इच्छति।
(ज) सः राजपुत्रः महाराणाप्रतापस्य जयघोषं करोति।
Advertisements
Solution
(घ) महाराणा प्रतापः अरण्ये विचारमग्नः शिलायाम् उपविष्टः अस्ति।
(क) सः सेनायाः भोजनसामग्र्याः अभावेन खिन्नः अस्ति।
(छ) अधुना सः स्वकीयैः प्राणैरेव स्वदेशं स्वतन्त्रं कर्तुम् इच्छति।
(ग) सहचराः महाराणाप्रतापस्य एतादृशीं स्थितिं दृष्ट्वा व्याकुलाः भवन्ति।
(ङ) तदैव कश्चित् मेवाडराजपुत्रः तत्र प्रविशति।
(ज) सः राजपुत्रः महाराणाप्रतापस्य जयघोषं करोति।
(ख) जयघोषं श्रुत्वा प्रतापः कथयति—अयि भ्रातः! कथं जयघोषं कृत्वा मां लज्जयसे इति।
(च) तदा राजपुत्रः वदति—स्वदेशं स्वाधीनं कर्तुं भवता किं न सोढम्? विजेष्यते ननु भवान्।
