हर्षवर्द्धनः अहो कीदृशं रमणीयम् उद्यानम्? यशोवर्द्धनः बाढम्, अतिशोभनम्। हर्षवर्द्धनः अत्र तु आम्रवृक्षाः अपि सन्ति। अहं तान् गणितवान्। अस्मिन् उपवने विंशतिः आम्रवृक्षाः सन्ति।
Advertisements
Advertisements
Question
| हर्षवर्द्धनः | अहो कीदृशं रमणीयम् उद्यानम्? |
| यशोवर्द्धनः | बाढम्, अतिशोभनम्। |
| हर्षवर्द्धनः | अत्र तु आम्रवृक्षाः अपि सन्ति। अहं तान् गणितवान्। अस्मिन् उपवने विंशतिः आम्रवृक्षाः सन्ति। किं त्वया गणिताः? |
| यशोवर्द्धनः | मया आम्रवृक्षाः नैव गणिताः परन्तु निम्बवृक्षाणां गणना कृता। तेषां सङ्ख्या पञ्चविंशतिः अस्ति। |
| हर्षवर्द्धनः | त्वम् उद्यानं परितः परिभ्रम्य मह्यं निवेदय, अत्र कति अशोकवृक्षाः सन्ति? |
| यशोवर्द्धनः | श्रीमन्! अत्र पञ्चाशत् अशोकवृक्षाः सन्ति। |
| हर्षवर्द्धनः | अहो एषः सुगन्धः कुतः आयाति? |
| यशोवर्द्धनः | सुगन्धस्तु मयापि अनुभूयते। |
| हर्षवर्द्धनः | पश्य, उद्यानस्य पूर्वभागे एका पुष्पवाटिका विद्यते, ततः एव समायाति सुगन्धः। |
| यशोवर्द्धनः | तत्र चलित्वा पश्यावः। अत्र तु शताधिकाः पाटलपादपाः सन्ति। अहं पाटलपुष्पाणि गणयामि। अस्यां वाटिकायां चत्वारिंशत् विकसितानि, पञ्चत्रिंशत् च अर्द्धविकसितानि कुसुमानि सन्ति। |
| हर्षवर्द्धनः | मित्र! यावत् त्वया पाटलपुष्पाणि गणितानि तावत् मया जपाकुसुमानि गणितानि। अत्र चतुःपञ्चाशत् जपाकुसुमानि वर्तन्ते, येषां सुगन्धः सर्वत्र प्रसरति, वातावरणं सुरभितं सुरम्यं च करोति। |
उपरिप्रदत्तवार्तालापात् सङ्ख्यावाचकानि पदानि चित्वा लिखत -
यथा - विशंतिः
- .....
- .....
- .....
- .....
- .....
- .....
- .....
Very Short Answer
Advertisements
Solution
- पञ्चविंशतिः
- पञ्चाशत्
- शताधिकाः
- चत्वारिंशत्
- पञ्चत्रिंशत्
- चतुःपञ्चाशत्
shaalaa.com
Is there an error in this question or solution?
