Advertisements
Advertisements
Question
गद्यांशं पठित्वा निर्दिष्टे: कृती कुरुत।
(१) अवबोधनम्। (३ त: २) (2)
राजा कीदृशौ अनुग्रहपरिहारौ वर्जयेत्?
(ii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।
निवृत्तपरिहारान् मित्रमिवानुगृह्णीयात्।
(iii) उचितं शब्दं चित्वा चतुष्कोणं पूरयत।
सस्यादिकं यथाकालं गृह्णाति स: − .......
|
करदेभ्यः कृतक्षेत्राणि प्रयच्छेत्। अकृतानि कर्तृभ्यो नादेयानि। अकृषताम् आच्छिद्य अन्येभ्यः प्रयच्छेत्। ग्रामभृतकवैदेहका वा कृषेयुः। धान्य-पशु-हिरण्यैः चैतान् अनुगृह्णीयात्। तान्यनु सुखेन दद्युः। अनुग्रहपरिहारौ चैतेभ्यः कोषवृद्धिकरौ दद्यात्, कोषोपघातकौ वर्जयेत्। अल्पकोषो हि राजा पौरजानपदानेव ग्रसते। निवेशसमकालं यथागतकं वा परिहारं दद्यात्। निवृत्तपरिहारान् पितेवानुगृह्णीयात्। सीताध्यक्ष: सर्वधान्य-पुष्प-फल-शाक-कन्दमूल-वाल्लिक्य-क्षौम-कार्पासबीजानि यथाकालं गृह्णीयात। बहुहलपरिकृष्टायां भूमौ (बीजानि) वापयेत्। यथाकालं च सस्यादि जातं जातं प्रवेशयेत्। न क्षेत्रे स्थापयेत् किञ्चित् पलालमपि पण्डित:।
दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा। उपहतान् पितेवानुगृह्णीयात्। बाल-वृद्ध-व्यसन्यनाथांश्च राजा बिभृयात्।
|
(२) शब्दज्ञानम्। (३ त: २) (2)
(i) गद्यांशतः विशेष्यं चित्वा लिखत।
(क) अल्पकोषः ........
(ख) बहुहलपरिकृष्टायां ........
(ii) सन्धिविग्रहं कुरुत।
तान्यनु ......... + .........।
(iii) गद्यांशतः पूर्वकालवाचक - धातुसाधित - अव्यये चित्वा लिखत।
- ..........।
- ..........।
अथवा
(२) पृथक्करणम्। (2)
जालरेखाचित्रं पूरयत।

Advertisements
Solution
(१)
(i) राजा कोषोपघातकौ अनुग्रहपरिहारौ वर्जयेत्।
(ii) निवृत्तपरिहारान् मित्रमिवानुगृह्णीयात्। − असत्यम्
(iii) सस्यादिकं यथाकालं गृह्णाति स: − सीताध्यक्ष:
(क) अल्पकोषः राजा
(ख) बहुहलपरिकृष्टायां भूमौ
तान्यनु = तानि + अनु।
- आच्छिद्य (ल्यप्)
- कृत्वा (त्वा)
अथवा
(२)

