English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्‌। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्‌। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद्‌ मातैव पुत्रस्य पालनम्‌ अकरोत्‌। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम्‌ अधीतवान्‌। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्‌। गृहं प्राप्य मातृसेवाम्‌ आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम्‌ अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्ट्वा आर्याम्बा चिन्तामग्ना जाता।

(१) अवबोधनम्‌। (४ तः ३)        ३

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

शङ्करस्य माता एव पुत्रस्य पालनम्‌ अकरोत्‌ यतः ______

  1. बाल्ये एव शङ्करस्य पिता दिवङ्गतः।
  2. शङ्करस्य पिता विदेशं गतः।

(ख) पूर्णवाक्येन उत्तरं लिखत।

किं दृष्ट्वा आर्याम्बा चिन्तामग्ना जाता?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।

पञ्चमे वयसि सः उपनीतः।

(घ) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः?

(२) शब्दज्ञानम्‌। (३ तः २)       २

(क) प्रश्ननिर्माणं कुरुत।

माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म।

(ख) गद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।

(ग) लकारं लिखत।

शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्‌

(३) पृथक्करणम्‌।          २

जालरेखाचित्रं पूरयत।

Comprehension
Advertisements

Solution

(१) 

(क) शङ्करस्य माता एव पुत्रस्य पालनम्‌ अकरोत्‌ यतः बाल्ये एव शङ्करस्य पिता दिवङ्गतः।

(ख) शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्ट्वा आर्याम्बा चिन्तामग्ना जाता।

(ग) सत्यम्‌

(घ) एषः गद्यांशः ‘आदिशङ्कराचार्यः’ इति/अस्मात्‌ पाठात्‌ उद्धृतः।

(२) 

(क) माता आर्याम्बा कस्य विवाहविषये सदैव चिन्तयति स्म?

(ख) 

  1. दिवम्‌/पालनम्‌/गुरुम्‌/अरुचिम्‌
  2. पटनादिकम्‌/गृहम्‌/मातृसेवाम्‌/अनुमतिम्‌

(ग) लङ्लकारः।

(३) 

shaalaa.com
  Is there an error in this question or solution?
2022-2023 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×