English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा कृतीः कुरुत। ४ चितौडस्य नृपः वीरवरः महाराणाप्रतापः बाल्यात्प्रभृति निर्भयः उदारश्च आसीत्‌। यदा सः राजा अभवत्‌ तदा सः प्रतिज्ञाम्‌ अकरोत्‌, - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा कृतीः कुरुत।    (४)

चितौडस्य नृपः वीरवरः महाराणाप्रतापः बाल्यात्प्रभृति निर्भयः उदारश्च आसीत्‌। यदा सः राजा अभवत्‌ तदा सः प्रतिज्ञाम्‌ अकरोत्‌, “तावदहं सुखानि न सेविष्ये यावद्‌ मम देशः स्वतन्त्रः न भवति।” परेषाम्‌ ऐश्वर्येण सुखसाधनैः स न कदापि संमोहितः। तस्य मनः नित्य स्वातन्त्रयंयप्राप्तेः विचारैः व्यापृतमासीत्‌। युद्धभूमौ मृत्युसमयेऽपि स देशस्य स्वतन्त्रताविषये चिन्तयति स्म। मनसा स्मरामः तं महान्तं देशभक्तम्‌।

१. पूर्णवाक्येन उत्तरत।      (१)

चितौडस्य नृपः कः?

२. प्रतिपदिकं लिखत।     (१)

(क) सुखानि

(ख) तस्य

३. वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।    (१)

परेषाम्‌ ऐश्वर्येण सुखसाधनैः स संमोहितः।

४. माध्यमभाषया सरलार्थं लिखत।    (१)

युद्धभूमौ मृत्युसमयेऽपि स देशस्य स्वतन्त्रताविषये चिन्तयति स्म।

५. गद्यांशात्‌ प्रथमा विभक्त्यन्तपदं चिनुत लिखत च।    (१)

६. कारकपरिचयं कुरुत।     (१)

मनसा स्मरामः तं महान्तं देशभक्तम्‌।

Comprehension
Advertisements

Solution

१. 

चितौडस्य नृपः वीरवरः महाराणाप्रतापः।

२. 

(क) सुखानि - सुख (नाम)

(ख) तस्य - तद्‌ (सर्वनाम)

३. असत्यम्‌ 

परेषाम्‌ ऐश्वर्येण सुखसाधनैः स संमोहितः।

४. 

हिन्दी: युद्ध के मैदान में अपनी मृत्यु के समय भी वह देश की स्वतंत्रता के बारे में सोच रहे थे।

मराठी: युद्धभूमीवर मृत्युच्यावेळी सुद्धा तो देशाच्या स्वतन्त्रतेविषयी विचार करत होता.

English: He was thinking for freedom of country even when he was dying on battlefield.

५. नृपः।

६. मनसा - करणकारकम्‌।

shaalaa.com
  Is there an error in this question or solution?
2019-2020 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×