English

एतत् सम्भाषणं पठत - पुत्री पितः! भवान् कथितवान् यत् यदि अहं कक्षायां प्रथमस्थानं लभे तर्हि भवान् मां पर्वतीयस्थानं नेष्यति। अधुना मां भवान् ग्रीष्मावकाशे कुत्र नेष्यति?

Advertisements
Advertisements

Question

एतत् सम्भाषणं पठत -

पुत्री पितः! भवान् कथितवान् यत् यदि अहं कक्षायां प्रथमस्थानं लभे तर्हि भवान् मां पर्वतीयस्थानं नेष्यति। अधुना मां भवान् ग्रीष्मावकाशे कुत्र नेष्यति?
पिता अहं हिमाचले मनाली-प्रदेशे नेष्यामि।
पुत्री वयं कदा गमिष्यामः?
पिता सोमवासरे वयम् अष्टवादने गृहतः प्रस्थानं करिष्यामः तदा नववादने रेलयानेन प्रचलिष्यामः।
पुत्री मनाली-प्रदेशे वयं कुत्र निवत्स्यामः?
माता वत्से! किमर्थं चिन्तयसि? तत्र बहवः यात्रिनिवासाः सन्ति। कुत्रापि स्थास्यामः।
पुत्री वयं तत्र किं किं द्रक्ष्यामः?
पिता मनाली-प्रदेशे बहूनि दर्शनीयानि स्थानानि सन्ति, किन्तु समयाभावात् वयं विशेष-रूपेण हिडिम्बा-मन्दिरम्, वसिष्ठकुण्डम्, रोहताङ्गदरम् एव द्रक्ष्यामः।
पुत्री हिडिम्बामन्दिरस्य का विशेषता?
पिता पुत्रि! हिडिम्बा कुल्लुप्रदेशस्य कुलदेवी।
पुत्रः वसिष्ठकुण्डः कीदृशः?
पिता पुत्र! एतत् प्राकृतिक-उष्ण-जलस्रोतः। तत्र निर्मिते कुण्डे यदि स्नानं करोषि तदा विश्रान्तः भविष्यसि निरामयः अपि वर्तिष्यसे।
पुत्रः रोहताङ्गदरस्य का विशेषता?
पिता वत्स! पूर्ण-हिमाच्छादितः अयं दरः। काष्ठनिर्मितशकटेन तत्र सञ्चरिष्यामः।
पुत्री अहो! अस्माकम् इयं यात्रा तु अविस्मरणीया एव भविष्यति।

हिडिम्बामन्दिरम्

वसिष्ठकुण्डः

रोहताङ्गदरः

◆ सम्भाषणे रेखाङ्कितानि क्रियापदानि चित्वा अधोलिखितस्तम्भेषु लिखत-

क्रियापदम् धातुः पुरुषः वचनम्
यथा-नेष्यति नी प्रथमः एकवचनम्
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
Grammar/Language
Advertisements

Solution

क्रियापदम् धातुः पुरुषः वचनम्
यथा-नेष्यति नी प्रथमः एकवचनम्
नेष्यामि नी (नृ) उत्तमपुरुषः एकवचनम्
गमिष्यामः गम् उत्तमपुरुषः बहुवचनम्
प्रचलिष्यामः प्रचल् उत्तमपुरुषः बहुवचनम्
निवत्स्यामः निवस् उत्तमपुरुषः बहुवचनम्
स्थास्यामः स्था उत्तमपुरुषः बहुवचनम्
द्रक्ष्यामः दृश् उत्तमपुरुषः बहुवचनम्
भविष्यसि भू मध्यमपुरुषः एकवचनम्
वर्तिष्यसे वृत् मध्यमपुरुषः एकवचनम्
सञ्चरिष्यामः सञ्चर् उत्तमपुरुषः बहुवचनम्
भविष्यति भू प्रथमपुरुषः एकवचनम्
shaalaa.com
  Is there an error in this question or solution?
Chapter 11: लृट्लकारः (भविष्यत्कालः) - लृट्लकारः (भविष्यत्कालः) [Page 97]

APPEARS IN

CBSE Sanskrit Manika Prathamo Bhag Class 9
Chapter 11 लृट्लकारः (भविष्यत्कालः)
लृट्लकारः (भविष्यत्कालः) | Q 1. | Page 97
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×