Advertisements
Advertisements
Question
भवतः अनुजः गोपालः पठनं त्यक्त्वा प्रायः खेलने संलग्नः भवति। तं पठनार्थं प्रेरयितुं लिखितं पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयित्वा पुस्तिकायां लिखत।
दिनाङ्कः -
(i) .....।
प्रिय (ii) .....!
शुभाशिषः।
ह्यः एव मात्रा लिखितं पत्रं (iii) .....। पत्रं पठित्वा ज्ञातं यत् (iv) ..... तव रुचिः पठने न अस्ति। भवान् पठनं (v) ..... खेलने रतः भवति, एतद् तु न (vi) .....। अस्मात् कारणात् एव गत-परीक्षायां भवतः अङ्काः (vii) ..... आसन्। यद्यपि खेलनम् अपि जीवनाय (viii) ..... परं पठनम् अपि तथा एव अनिवार्यम्। ये कालं व्यर्थं नयन्ति ते कदापि सफलतां न प्राप्नुवन्ति। (ix) ..... त्वं मम कथनं मनसि धृत्वा पठने एव ध्यानं दास्यसि। मातापितृभ्यां मे प्रणामाः।
भवतः (x) .....
रामगोपालः
मञ्जूषा:
| प्राप्तम्, उचितम्, अद्यत्वे, छात्रावासतः, मन्ये, अग्रजः, गोपाल, आवश्यकम्, त्यक्त्वा, न्यूनाः। |
Advertisements
Solution
दिनाङ्कः - 27-10-2026
(i) छात्रावासतः।
प्रिय (ii) गोपाल!
शुभाशिषः।
ह्यः एव मात्रा लिखितं पत्रं (iii) प्राप्तम्। पत्रं पठित्वा ज्ञातं यत् (iv) अद्यत्वे तव रुचिः पठने न अस्ति। भवान् पठनं (v) त्यक्त्वा खेलने रतः भवति, एतद् तु न (vi) उचितम्। अस्मात् कारणात् एव गत-परीक्षायां भवतः अङ्काः (vii) न्यूनाः आसन्। यद्यपि खेलनम् अपि जीवनाय (viii) आवश्यकम् परं पठनम् अपि तथा एव अनिवार्यम्। ये कालं व्यर्थं नयन्ति ते कदापि सफलतां न प्राप्नुवन्ति। (ix) मन्ये त्वं मम कथनं मनसि धृत्वा पठने एव ध्यानं दास्यसि। मातापितृभ्यां मे प्रणामाः।
भवतः (x) अग्रजः
रामगोपालः
