अत्र द्वयोः मित्रयो: संवादः दत्तः। सञ्जय: प्रश्नान् करोति, रमा च उत्तराणि ददाति। उदाहरणम् अनुसृत्य रमायाः उत्तराणि कर्मवाच्ये लिख्यन्ताम् - यथा - सज्जयः - रमे! किं त्वं प्रात: चतुर्वादने उत्तिष्ठसि?
Advertisements
Advertisements
Question
अत्र द्वयोः मित्रयो: संवादः दत्तः। सञ्जय: प्रश्नान् करोति, रमा च उत्तराणि ददाति।
उदाहरणम् अनुसृत्य रमायाः उत्तराणि कर्मवाच्ये लिख्यन्ताम् -
यथा -
सज्जयः - रमे! किं त्वं प्रात: चतुर्वादने उत्तिष्ठसि?
रमा - आम्। मया प्रातः चतुर्वादने उत्थीयते।
सञ्जय: - किं त्वं प्रातः उत्थाय भ्रमसि, क्रीडसि पठसि च?
रमा - आम्। ......।
सञ्जय: - किं तव अग्रजः अभिनयं करोति?
रमा - नहि! ......।
सञ्जयः - किं तव पितामह: वाटिकां सिञ्चति?
रमा - आम्। ......।
सञ्जय: - किं ते भगिनी चिकित्साशास्त्रं पठति?
रमा - नहि। ......।
Advertisements
Solution
सञ्जय: - किं त्वं प्रातः उत्थाय भ्रमसि, क्रीडसि पठसि च?
रमा - आम्। मया प्रातः उत्थाय भ्रम्यते, क्रीड्यते, पठ्यते च।
सञ्जय: - किं तव अग्रजः अभिनयं करोति?
रमा - नहि! मम अग्रजेन अभिनयः न क्रियते।
सञ्जयः - किं तव पितामह: वाटिकां सिञ्चति?
रमा - आम्। मम पितामहेन वाटिका सिच्यते।
सञ्जय: - किं ते भगिनी चिकित्साशास्त्रं पठति?
रमा - नहि। मम भगिन्या चिकित्साशास्त्रं न पठ्यते।
