अनुच्छेदं पठित्वा अधः प्रदत्तप्रश्नानाम् उत्तराणि लिखत - लोके सर्वेऽपि सुखमिच्छन्ति। धनं, पदवीं, साधनानि सर्वमपि सुखार्थमेव खलु जनाः अर्जयन्ति। चाणक्यस्य अर्थशास्त्रे अयमेव विषयः
Advertisements
Question
अनुच्छेदं पठित्वा अधः प्रदत्तप्रश्नानाम् उत्तराणि लिखत -
|
लोके सर्वेऽपि सुखमिच्छन्ति। धनं, पदवीं, साधनानि सर्वमपि सुखार्थमेव खलु जनाः अर्जयन्ति। चाणक्यस्य अर्थशास्त्रे अयमेव विषयः व्यावहारिकतया उक्तः। धर्मस्य कारणं धनमस्ति। अर्थस्य कारणं राज्यमस्ति। राज्यस्य कारणम् इन्द्रियजयः। इन्द्रियजयस्य कारणं विनयः अस्ति। विनयस्य कारणं वृद्धोपसेवा अस्ति। वृद्धोपसेवायाः कारणं ज्ञानम् अस्ति। मोक्षरूपिणा ज्ञानेन आत्मानं नियन्त्रयेत्। नियन्त्रितात्मा जितात्मा भवति। जितात्मा इच्छानुसारं फलानि प्राप्नोति। प्रायः धनं प्राप्य एव सुखं भवति इति मन्यते। किन्तु यदा कदा धनेन सुखं न लभ्यते इत्यपि अस्माकम् अनुभवः भवति। एकम् अनुपस्थितं तत्त्वं (Missing Element) वयं तत्र न अवलोकयामः। धनाद् धर्मः ततः सुखम् इति। धनस्य सुखस्य च मध्ये धर्मः भवेद् इति अर्थः। अतः धर्मानुसारं प्राप्तं धनमेव सुखं ददाति। अतः उक्तम्-सुखस्य मूलं धर्मः धर्मस्य मूलं धनमिति। उक्तं च सङ्ग्रहेण सुभाषिते - विद्या ददाति विनयं विनयाद्याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मः ततस्सुखम्॥ |
(क) सुखार्थं जनाः किं किम् अर्जयन्ति?
(ख) सुखस्य मूलं ______ अस्ति।
(ग) जितात्मा किं प्राप्नोति?
(घ) सुभाषिते त्रीणि क्रियापदानि सन्ति। प्रथमं ______ द्वितीयं ______ इति तृतीयं च आप्नोति इति।
Advertisements
Solution
(क) जनाः सुखार्थं धनं, पदवीं, साधनानि च अर्जयन्ति।
(ख) सुखस्य मूलं धर्मः अस्ति।
(ग) जितात्मा इच्छानुसारं फलानि प्राप्नोति।
(घ) सुभाषिते त्रीणि क्रियापदानि सन्ति। प्रथमं ददाति द्वितीयं याति इति तृतीयं च आप्नोति इति।
