Advertisements
Advertisements
Question
अधोलिखितं पद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि। तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥ त्यक्त्वा धर्मप्रदां वाचं परषां योऽभ्युदीरयेत्। परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥ |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) चित्ते वाचि च का भवेत्?
(ख) कः परुषां वाचं वदति?
(ग) तदेव समत्वम् इति के आहुः?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) कः अपक्वं फलं भुङ्क्ते?
(ख) समत्वं किं भवति?
(ग) वाचि कीदृशी अवक्रता भवेत्?
इ. निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) 'आहुः' इति क्रियापदस्य कर्तृपदं किम्?
(ख) 'वक्रता' इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत।
(ग) 'मनसि' इति पदस्य पर्यायपदं श्लोकात् चित्वा लिखत।
Advertisements
Solution
अ.
(क) अवक्रता
(ख) विमूढधीः
(ग) महात्मानः
आ.
(क) विमूढधीः अपक्वं फलं भुङ्क्ते।
(ख) यथा चित्ते तथैव यदि वाचि अवक्रता भवेत् तदेव तथ्यतः समत्वं भवति।
(ग) यथा चित्ते तथैव यदि वाचि अवक्रता भवेत्।
इ.
(क) महात्मानः
(ख) अवक्रता
(ग) चित्ते
