English

अधोलिखितं गद्यांशं पठित्वा तदाधारितान्‌ प्रश्नान्‌ संस्कृतेन उत्तरत - एकस्मिन्‌ दिने श्रीनायारः पत्रमेकं धृत्वा मस्तकमवनमय्य पठन्‌ आसीत्‌। - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा तदाधारितान्‌ प्रश्नान्‌ संस्कृतेन उत्तरत -

एकस्मिन्‌ दिने श्रीनायारः पत्रमेकं धृत्वा मस्तकमवनमय्य पठन्‌ आसीत्‌। नेत्रतीराद्‌ विगलिता अश्रुधारा आर्द्रीकरोति स्म पत्रस्य अर्धाधिकं भागम्‌। तदानीमेव तस्य कार्यालयलिपिकः श्रीदासः प्रविशति। श्रीनायारः तमुक्तवान्‌ - अधुना मम गमनसमयः समुपागत एव। मम दायित्वहस्तान्तरणपत्रकं सज्जीकुरु। अहमधुना द्वित्राणां दिवसानां सकारणावकाशं स्वीकरिष्यामि। पुनः तदनु स्वीकरिष्यामि दीर्घावकाशम्‌। यदि कस्मैचिद्‌ अज्ञातेन मया रूक्षो व्यवहारः प्रदर्शितः स्यात्‌, तदर्थं ते मह्यमुदारचित्तेन क्षमां प्रदास्यन्ति इति सर्वेभ्यो निवेदयतु। अनन्तरं सर्वे अश्रुलहृदयैः सौप्रस्थानिकीं ज्ञापितवन्तः। तस्य गमनस्य दिवसत्रयात्परं कार्यालये पत्रमेकमागतम्‌। कौतूहलवशात्‌ श्रीदासः तत्पत्रमुद्धाटितवान्‌।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

  1. श्रीनायारस्य नेत्रतीरात्‌ का विगलिता आसीत्‌?
  2. श्रीदासः पत्रं कथम्‌ उद्वाटितवान्‌?
  3. श्रीनायारः कति दिवसानां सकारणावकाशं इच्छति स्म?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

  1. सर्वे अश्रुलहृदयैः किं कृतवन्तः?
  2. श्रीनायारः कार्यालयलिपिकं किं सज्जीकर्तुम्‌ अकथयत्‌?
  3. श्रीनायारः सर्वेभ्यः किं निवेदयितुम्‌ अकथयत्‌?

III. (अ) निर्देशानुसारम्‌ उत्तरत -          2

  1. ‘अश्रुधारा’ इति कर्तृपदस्य क्रियापदं गद्यांशे किमस्ति?
  2. ‘उन्नमय्य’ इत्यस्य विलोमपदं गद्यांशात्‌ चित्वा लिखत।

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -       

  1. ‘अर्धाधिकम्‌’ इति पदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्‌?
  2. ‘कौतुककारणात्‌’ इत्यस्य पर्यायपदं गद्यांशे किमस्ति?
Comprehension
Advertisements

Solution

I. 

  1. अश्रुधारा
  2. कौतूहलवशात्‌
  3. द्वित्राणाम्‌

II. 

  1. सर्वे अश्रुलहृदयैः सौप्रस्थानिकीं ज्ञापितवन्तः।
  2. श्रीनायारः कार्यालयलिपिकं दायित्वहस्तान्तरणपत्रकं सज्जीकर्तुम्‌ अकथयत्‌।
  3. श्रीनायारः सर्वेभ्यः निवेदयितुम्‌ अकथयत्‌ - यदि कस्मैचिद्‌ अज्ञातेन मया रुक्षो व्यवहारः प्रदर्शितः स्यात्‌, तदर्थं ते मह्यमुदारचित्तेन क्षमां प्रदास्यन्ति’ इति।

III. (अ) 

  1. आर्द्रीकरोति स्म
  2. अवनमय्य

अथवा

(आ)   

  1. भागम्‌
  2. कौतूहलवशात्‌
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×