Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
शुद्धं पर्यावरणम् एव अस्माकं जीवनस्य आधारोऽस्ति। असन्तुलितेन पर्यावरणेन न केवलं मानवजातेः अपितु पशुपक्षिणामपि विनाशः सम्भवति। साम्प्रतं प्रदूषणं विश्वस्य महती समस्या अस्ति। कुत्रापि स्वच्छः वायुः न प्राप्यते, न स्वच्छं जलं लभ्यते न च स्वच्छा: खाद्यपदार्थाः प्राप्यन्ते। प्रदूषणस्य आधिक्येन जनाः निरन्तरं विविधैः रोगैः आक्रान्ताः भवन्ति। प्रदूषणस्य निराकरणाय देशाः बहुविधं प्रयासं कुर्वन्ति परन्तु प्रदूषणं तु अनवरतं वर्धते। अद्यत्वे जायमानैः युद्धैः, युद्धाभ्यासैः, यन्त्रालयानां यानानां च धूमेन सम्पूर्णवायुमण्डलं दूषितं सञ्जातम्। वृक्षाणां कर्तनात् शुद्धवायोः उपलब्धता अपि न्यूना जायते। दूषितः वायुः एव श्वासमाध्यमेन हृदयं प्रविशति। अतः विविधाः श्वासरोगाः, हृदयरोगाः, चर्मरोगाः नेत्ररोगाः च जनान् पीडयन्ति। एतेन मानवाः एव न अपितु पशुपक्षिणः अपि रोगग्रस्ताः भवन्ति। वायुप्रदूषणं नगरेषु अधिकम् अस्ति। उद्योगानां विषाक्तं जलं जनाः नद्यां निपातयन्ति येन जलचराणां मानवानां चापि हानिः भवति। अस्माभिः सर्वैः मिलित्वा प्रदूषणसमस्यायाः निवारणाय सर्वे उपायाः कर्तव्याः अन्यथा पृथिव्याम् अपि जीवनम् असम्भवं भविष्यति। यावत् जनाः जागरूकाः न भविष्यन्ति तावत् अस्याः समस्यायाः समाधानं न भविष्यति। अतः वयं प्रदूषणं निवारयाम, पृथ्वीं सुरक्षयाम। प्रदूषणस्य निवारणाय पर्यावरणस्य संरक्षणाय च वृक्षाः रोपणीयाः, उद्योगानां विस्तारः च वैज्ञानिकरीत्या करणीयः, आयुद्धगतिविधयः निवारणीयाः। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- दूषितः वायुः कथं हृदयं प्रविशति?
- अस्माभिः कस्याः निवारणं कर्तव्यम्?
- साम्प्रतं विश्वस्य महती समस्या का अस्ति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 4
- वायुप्रदूषणेन के के रोगाः भवन्ति?
- सम्पूर्णवायुमण्डलं कथं दूषितं जातम्?
- प्रदूषणस्य निवारणाय के उपायाः कर्तव्याः?
इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
ई. यथानिर्देशम् उत्तरत - 3
- ‘मलिनम्’ इति पदस्य विलोमपदं अनुच्छेदे किं प्रयुक्तम्?
(क) प्रदूषणम्
(ख) नित्यम्
(ग) विनाशम्
(घ) स्वच्छम् - “उद्योगानां विषाक्तं जलं जनाः नद्यां निपातयन्ति।” अत्र विशेष्यपदं किम्?
(क) विषाक्तम्
(ख) जलम्
(ग) जनाः
(घ) उद्योगानाम् - ‘प्रविशति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) श्वासेन
(ख) हृदयम्
(ग) प्रदूषणम्
(घ) वायुः
Advertisements
Solution
अ.
- श्वासमाध्यमेन
- प्रदूषणसमस्यायाः
- प्रदूषणम्
आ.
- वायुप्रदूषणेन विविधाः श्वासरोगाः, हदयरोगाः, चर्मरोगाः, नेत्ररोगः भवन्ति।
- अद्यत्वे जायमानैः युद्धैः, युद्धाभ्यासैः, यच्रालयानां यानानां च धूमेन सम्पूर्णवायुमण्डलं दूषितं सञ्जातम्।
- प्रदूषणस्य निवारणाय वृक्षाः रोपणीयाः,उद्योगानां विस्तारः च वैज्ञानिकरीत्या करणीयः आयुद्धगतिविधयः निवारणीयाः।
इ.
प्रदूषणम्/पर्यावरणस्य संरक्षणम् प्रदूषणसमस्या
छात्रस्य उत्तरं दृष्टवा छात्रहिताय समुचितः निर्णयः करणीयः।
ई.
- स्वच्छम्
- जलम्
- वायुः
