English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - अस्ति कर्मपुरनाम्नि नगरे प्रच्छनभाग्य-नामधेयः कश्चित्‌ कुमारः। बाल्ये वयसि विद्यापराङ्कखः स केनचित्‌ दुष्टबुद्धिनाम्ना - Sanskrit (Communicative)

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -

अस्ति कर्मपुरनाम्नि नगरे प्रच्छनभाग्य-नामधेयः कश्चित्‌ कुमारः। बाल्ये वयसि विद्यापराङ्कखः स केनचित्‌ दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः। एकदा स दुष्टबुद्धिना सार्धं कस्यचित्‌ श्रेष्ठिनः गेहे धनहरणार्थं ग्रामान्तरं प्रस्थितः।

अथ व्रजन्तौ तौ गर्तसङ्कुले मार्गे क्रीडतः कांश्चित्‌ बालकान्‌ प्रेक्ष्य अवदताम्‌ -भो भो बालकाः! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चित्‌ गर्ते पतेत्‌ तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम्‌ अनुभवेत्‌। तच्छ्रुत्वा तेषु कश्चित्‌ उदण्डः बालकः उवाच - अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्‌?

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)   1

  1. कुत्र प्रच्छन्नभाग्य-नामधेयः कश्चित्‌ कुमारः आसीत्‌?
  2. प्रच्छन्नभाग्यः केन सार्धं धनहरणार्थं ग्रामान्तरं प्रस्थितः?
  3. कीदृशः बालकः उवाच?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)   2

  1. उदण्डः बालकः किम्‌ अकथयत्‌?
  2. अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान्‌ दृष्ट्वा किम्‌ अवदताम्‌?
  3. प्रच्छन्नभाग्यः कदा केन सह च चौर्यकर्मणि निरतः सञ्जातः?

III. (अ) निर्देशानुसारम्‌ उत्तरत -   2

  1. ‘कश्चित्‌ उदण्डः बालकः उवाच।’ अत्र किं कर्तृपदम्‌ अस्ति?
  2. ‘स विकलाङ्गो भूत्वा चिरं क्लेशम्‌ अनुभवेत्‌।’ अत्र क्रियापदं किम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -

  1. ‘त्यक्त्वा’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
  2. ‘विषमे’ इत्यस्य विशेष्यपदं गद्यांशात्‌ चित्वा लिखत।
Comprehension
Advertisements

Solution

I. 

  1. कर्मपुरनगरे/कर्मपुरनाम्नि नगरे
  2. दुष्टबुद्धिना
  3. उदण्डः

II.

  1. उदण्डः बालकः अकथयत्‌ - अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्‌?
  2. अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान्‌ दृष्ट्वा अवदताम्‌ - यदि कश्चित्‌ गर्ते पतेत्‌ तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम्‌ अनुभवेत्‌।
  3. प्रच्छन्नभाग्यः बाल्ये वयसि विद्यापराङ्मुखः स केनचित्‌ दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः।

III. (अ) 

  1. बालकः
  2. अनुभवेत्‌

अथवा

(आ) 

  1. परित्यज्य
  2. मार्गे
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×