English

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः?

Advertisements
Advertisements

Question

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयमेव)

(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः? 

(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) जीवनं कदा सुखमयं भवति? 

(ख)  कौ अस्माभिः सह सदैव तिष्ठतः? 

(iii) निर्देशानुसारम् उत्तरत 

(क) 'अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।

(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्? 

(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्? 

(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत। 

Answer in Brief
Advertisements

Solution

(i)

(क) गुणाधानस्य।

(ख) शरीरस्वास्थ्यरक्षायै।

(ii) 

(क) यदा बाल्यकाले वयं परिश्रमं कुर्मः तदा जीवनं सुखमयं भवति।

(ख) आचाराः व्यवहारः च अस्माभिः सह सदैव तिष्ठतः।

(iii) 

(क) सावधानमनसा।

(ख) महत्त्वपूर्णः।

(ग) भवति।

(iv) बाल्यावस्थायाः महत्त्वम्।

shaalaa.com
आदर्शप्रश्‍नपत्रम्
  Is there an error in this question or solution?
Chapter 14: आदर्शप्रश्नपत्रम् - खण्ड – ‘क’(अपठितः अनुच्छेदः) [Page 101]

APPEARS IN

NCERT Sanskrit Abhyaswaan Bhav Class 10
Chapter 14 आदर्शप्रश्नपत्रम्
खण्ड – ‘क’(अपठितः अनुच्छेदः) | Q 1. | Page 101
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×