Advertisements
Advertisements
Question
अधोलिखितां कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत:
एकः वृक्षः स्व-आत्मकथां (i) ______। मम जन्मस्थानम् एकं (ii) ______ आसीत्। प्रारम्भे अहं लघुः एव आसम् परन्तु शनैः-शनैः (iii) ______ जातः। मम शाखाः (iv) ______ पत्राणि च मनोहराणि आसन्। अहं श्रान्तानां (v) ______ आश्रयः पक्षिणां निवासः च अस्मि। सर्वे जीवाः प्राणवायुः अत्र एव (vi) ______। अहं परोपकारी धैर्यवान् च अस्मि। मनुष्याः यदा वृक्षं (vii) ______ तदा अहं जीवनस्य सुखम् अनुभवामि। अहं जनेभ्यः अभीष्टानि (viii) ______ यच्छामि। मम जीवनं तु (ix) ______ एव अस्ति। परं लोभवशात् मनुष्यः वृक्षं छित्वा (x) ______ एव करोति। वृक्षाणां संरक्षणमेव जीवनम् अस्ति।
मञ्जूषा
| आत्महानिम्, पथिकानां, पोषयन्ति, कथयति, हरिताः, वनम्, उन्नतः वस्तूनि, अन्येभ्यः, प्राप्नुवन्ति। |
Advertisements
Solution
एकः वृक्षः स्व-आत्मकथां (i) कथयति। मम जन्मस्थानम् एकं (ii) वनम् आसीत्। प्रारम्भे अहं लघुः एव आसम् परन्तु शनैः-शनैः (iii) उन्नतः जातः। मम शाखाः (iv) हरिताः पत्राणि च मनोहराणि आसन्। अहं श्रान्तानां (v) पथिकानां आश्रयः पक्षिणां निवासः च अस्मि। सर्वे जीवाः प्राणवायुः अत्र एव (vi) प्राप्नुवन्ति। अहं परोपकारी धैर्यवान् च अस्मि। मनुष्याः यदा वृक्षं (vii) पोषयन्ति तदा अहं जीवनस्य सुखम् अनुभवामि। अहं जनेभ्यः अभीष्टानि (viii) वस्तूनि यच्छामि। मम जीवनं तु (ix) अन्येभ्यः एव अस्ति। परं लोभवशात् मनुष्यः वृक्षं छित्वा (x) आत्महानिम् एव करोति। वृक्षाणां संरक्षणमेव जीवनम् अस्ति।
