अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत- कस्मिंश्चिद् वने एकः वृक्षः आसीत्। तत्र एकः चटकः स्वपरिवारेण सह वसति स्म। वर्षाकाले एकदा तत्र महती (i) ..... भवति।
Advertisements
Advertisements
Question
अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत-
कस्मिंश्चिद् वने एकः वृक्षः आसीत्। तत्र एकः चटकः स्वपरिवारेण सह वसति स्म। वर्षाकाले एकदा तत्र महती (i) ..... भवति। एकः वानरः आश्रयार्थं (ii) ..... अधः आगच्छति। वानरं दृष्ट्वा चटकः वदति - “भोः वानर! भवान् तु समर्थः अस्ति। भवतः (iii) ..... मनुष्य-शरीरम् (iv) ..... अस्ति। हस्तौ पादौ च सम्यक् सन्ति। भवान् उत्तमगृहस्य (v) ..... कर्तुं शक्नोति। किमर्थं न स्वस्य कृते गृहस्य निर्माणं करोति?” तत् श्रुत्वा (vi) ..... कुपितः भवति। वानरः (vii) ..... वदति - “अधुना त्वं मौनम् एव तिष्ठ। तव (viii) ..... आवश्यकता नास्ति।” चटकः तं पुनः कथयति - “भ्रातः! अहं तु तव हिताय एव चिन्तयामि।” तस्य (ix) ..... श्रुत्वा सः वानरः वृक्षम् आरुह्य (x) ..... नीडं नाशयति। अत एवोच्यते - उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये इति।
मञ्जूषा
| निर्माणम्, इव, चटकस्य, वचनम्, वानरः, वृष्टिः, वृक्षस्य, चटकम्, शरीरम्, उपदेशस्य। |
Advertisements
Solution
कस्मिंश्चिद् वने एकः वृक्षः आसीत्। तत्र एकः चटकः स्वपरिवारेण सह वसति स्म। वर्षाकाले एकदा तत्र महती (i) वृष्टिः भवति। एकः वानरः आश्रयार्थं (ii) वृक्षस्य अधः आगच्छति। वानरं दृष्ट्वा चटकः वदति - “भोः वानर! भवान् तु समर्थः अस्ति। भवतः (iii) शरीरम् मनुष्य-शरीरम् (iv) इव अस्ति। हस्तौ पादौ च सम्यक् सन्ति। भवान् उत्तमगृहस्य (v) निर्माणम् कर्तुं शक्नोति। किमर्थं न स्वस्य कृते गृहस्य निर्माणं करोति?” तत् श्रुत्वा (vi) वानरः कुपितः भवति। वानरः (vii) चटकम् वदति - “अधुना त्वं मौनम् एव तिष्ठ। तव (viii) उपदेशस्य आवश्यकता नास्ति।” चटकः तं पुनः कथयति - “भ्रातः! अहं तु तव हिताय एव चिन्तयामि।” तस्य (ix) वचनम् श्रुत्वा सः वानरः वृक्षम् आरुह्य (x) चटकस्य नीडं नाशयति। अत एवोच्यते - उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये इति।
