अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत- एकदा केचन शिष्याः (i) ..... कुर्तन्ति स्म। तदैव एकः गजः महता वेगेन तस्मिन् (ii) ..... आगच्छत्। गजस्य उपरि उपविष्टः
Advertisements
Advertisements
Question
अधोलिखिताः कथाः मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत-
एकदा केचन शिष्याः (i) ..... कुर्तन्ति स्म। तदैव एकः गजः महता वेगेन तस्मिन् (ii) ..... आगच्छत्। गजस्य उपरि उपविष्टः (iii) ..... उच्चस्वरेण पुनः पुनः घोषयति स्म - अपसरन्तु, अपसरन्तु इति। सर्वे (iv) ..... धावितवन्तः। यथा सर्वेषु वस्तुषु (v) ..... अस्ति तथा गजे अपि इति विचिन्त्य एकः शिष्यः तत्रैव स्थितवान्। तावति काले गजः तं (vi) ..... गृहीत्वा दूरे क्षिप्तवान्। शिष्याः मूर्च्छितं तं गुरुकुलम् अनयन्। (vii) ..... तं गुरुः अपृच्छत् - “वत्स! त्वम् एवं किमर्थम् आचरः इति।” शिष्यः अवदत् - “गुरुवर्य! भवद्भिः एव (viii) ..... यत् ईश्वरः सर्वेषु अस्ति, अतः अहम् गजे अपि ईश्वरं मत्वा तत्र (ix) ..... इति।” गुरुः उक्तवान् - “वत्स! यथा गजे तथा हस्तिपके अपि ईश्वरः इति (x) ..... न चिन्तितम् इति।”
मञ्जूषा
| हस्तिपकः, लब्धसंज्ञम्, कथम्, शिक्षितम्, भिक्षाटनम्, अतिष्ठम्, शिष्याः, ईश्वरः, स्वशुण्डेन, मार्गे। |
Advertisements
Solution
एकदा केचन शिष्याः (i) भिक्षाटनम् कुर्तन्ति स्म। तदैव एकः गजः महता वेगेन तस्मिन् (ii) मार्गे आगच्छत्। गजस्य उपरि उपविष्टः (iii) हस्तिपकः उच्चस्वरेण पुनः पुनः घोषयति स्म - अपसरन्तु, अपसरन्तु इति। सर्वे (iv) शिष्याः धावितवन्तः। यथा सर्वेषु वस्तुषु (v) ईश्वरः अस्ति तथा गजे अपि इति विचिन्त्य एकः शिष्यः तत्रैव स्थितवान्। तावति काले गजः तं (vi) स्वशुण्डेन गृहीत्वा दूरे क्षिप्तवान्। शिष्याः मूर्च्छितं तं गुरुकुलम् अनयन्। (vii) लब्धसंज्ञम् तं गुरुः अपृच्छत् - “वत्स! त्वम् एवं किमर्थम् आचरः इति।” शिष्यः अवदत् - “गुरुवर्य! भवद्भिः एव (viii) शिक्षितम् यत् ईश्वरः सर्वेषु अस्ति, अतः अहम् गजे अपि ईश्वरं मत्वा तत्र (ix) अतिष्ठम् इति।” गुरुः उक्तवान् - “वत्स! यथा गजे तथा हस्तिपके अपि ईश्वरः इति (x) कथम् न चिन्तितम् इति।”
