Advertisements
Advertisements
Question
अधोलिखिताः कथाः मञ्जूषायाः सहायतया पूरयित्वा उत्तर-पुस्तिकायां लिखत -
मुखे रोटिकाखण्डं गृहीत्वा एकः काकः एकस्मिन् (1) ..... उपविष्टः आसीत्। किञ्चित् कालानन्तरम् एकः (2) ..... तत्र आगच्छत्। रोटिकां (3) ..... खादितुम् इच्छन् शृगालः तं काकं दृष्ट्वा (4) ..... भो मित्र! खगेषु भवान् एव सुन्दरः, चतुरः, (5) ..... च अस्ति। अतः कृपया किमपि गीतं गायतु। श्रोतु मे महती (6) ..... अस्ति। परन्तु काकोऽपि चतुरः आसीत्। (7) ..... पादयोः अधः स्थापयित्वा काकः अवदत्-रे! नाहं (8) ..... मूर्खः अस्मि। गताः ते दिवसाः। इतः गच्छतु (9) ..... इति। काकस्य उत्तरं श्रुत्वा (10) ..... शृगालः शिरः नत्वा ततः पलायितः।
| भवान्, शृगालः, वृक्षे, लज्जितः, अवदत्, मधुरगायकः, पूर्ववत्, छलेन, इच्छा, रोटिकाखण्डम्। |
Advertisements
Solution
मुखे रोटिकाखण्डं गृहीत्वा एकः काकः एकस्मिन् (1) वृक्षे उपविष्टः आसीत्। किञ्चित् कालानन्तरम् एकः (2) शृगालः तत्र आगच्छत्। रोटिकां (3) छलेन खादितुम् इच्छन् शृगालः तं काकं दृष्ट्वा (4) अवदत् भो मित्र! खगेषु भवान् एव सुन्दरः, चतुरः, (5) मधुरगायकः च अस्ति। अतः कृपया किमपि गीतं गायतु। श्रोतु मे महती (6) इच्छा अस्ति। परन्तु काकोऽपि चतुरः आसीत्। (7) रोटिकाखण्डम् पादयोः अधः स्थापयित्वा काकः अवदत्-रे! नाहं (8) पूर्ववत् मूर्खः अस्मि। गताः ते दिवसाः। इतः गच्छतु (9) भवान् इति। काकस्य उत्तरं श्रुत्वा (10) लज्जितः शृगालः शिरः नत्वा ततः पलायितः।
