English

अधोलिखिताः कथाः मञ्जूषायाः सहायतया पूरयित्वा उत्तर-पुस्तिकायां लिखत - एकदा अमेरिकादेशे (1) ..... आवासार्थं भवनानां निर्माणकार्यं प्रचलति स्म। तत्र एकः विशालः (2) ..... भवननिर्माणकार्ये

Advertisements
Advertisements

Question

अधोलिखिताः कथाः मञ्जूषायाः सहायतया पूरयित्वा उत्तर-पुस्तिकायां लिखत -

एकदा अमेरिकादेशे (1) ..... आवासार्थं भवनानां निर्माणकार्यं प्रचलति स्म। तत्र एकः विशालः (2) ..... भवननिर्माणकार्ये बाधकः आसीत्। केचन (3) ..... तं विशालं काष्ठखण्डम् उत्थापयितुं प्रयत्नशीलाः आसन्। काष्ठखण्डस्य भारः (4) ..... आसीत् तस्मात् ते तं काष्ठखण्डम् किञ्चिदपि उत्थापयितुम् (5) ..... आसन्। तेषां सैनिकानां नायकः अपि तत्र (6) ..... आसीत्। परं सः दूरतः एव तान् अधिकबलप्रयोगाय वारं वारम् (7) .....। तस्मिन्नेव काले एकः अश्वारोही तत्र आगच्छत्। सः अश्वात् अवतीर्य सैनिकानां (8) ..... संलग्नः अभवत्। काष्ठखण्डः वाहने आरोपितः। अश्वारोही (9) ..... अवदत् - पुनरपि यदा आवश्यकता भवेत्, स्वदेशस्य राष्ट्रपति वाशिङ्गटनं मां स्मरत। सेनानायकः तु इदं श्रुत्वा (10) ..... पतित इव अभवत्।

सैनिकाः, असमर्थाः, आदिशति स्म, आकाशात्, सेनानायकम्, सहायतायाम्, सैनिकानाम्, उपस्थितः, अत्यधिकः, काष्ठखण्डः।
Writing Skills
Advertisements

Solution

एकदा अमेरिकादेशे (1) सैनिकानाम् आवासार्थं भवनानां निर्माणकार्यं प्रचलति स्म। तत्र एकः विशालः (2) काष्ठखण्डः भवननिर्माणकार्ये बाधकः आसीत्। केचन (3) सैनिकाः तं विशालं काष्ठखण्डम् उत्थापयितुं प्रयत्नशीलाः आसन्। काष्ठखण्डस्य भारः (4) अत्यधिकः आसीत् तस्मात् ते तं काष्ठखण्डम् किञ्चिदपि उत्थापयितुम् (5) असमर्थाः आसन्। तेषां सैनिकानां नायकः अपि तत्र (6) उपस्थितः आसीत्। परं सः दूरतः एव तान् अधिकबलप्रयोगाय वारं वारम् (7) आदिशति स्म। तस्मिन्नेव काले एकः अश्वारोही तत्र आगच्छत्। सः अश्वात् अवतीर्य सैनिकानां (8) सहायतायाम् संलग्नः अभवत्। काष्ठखण्डः वाहने आरोपितः। अश्वारोही (9) सेनानायकम् अवदत् - पुनरपि यदा आवश्यकता भवेत्, स्वदेशस्य राष्ट्रपति वाशिङ्गटनं मां स्मरत। सेनानायकः तु इदं श्रुत्वा (10) आकाशात् पतित इव अभवत्।

shaalaa.com
  Is there an error in this question or solution?
Chapter 33: कथापूर्तिः - कथापूर्ति: [Page 205]

APPEARS IN

CBSE Sanskrit Manika Prathamo Bhag Class 9
Chapter 33 कथापूर्तिः
कथापूर्ति: | Q 10. | Page 205
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×