Advertisements
Advertisements
Question
अधोलिखिताः कथाः मञ्जूषायाः सहायतया पूरयित्वा उत्तर-पुस्तिकायां लिखत -
एकः बालकः आसीत्। सः पठने बहुकुशलः नासीत्। परन्तु सः स्वभावेन (1) ..... आसीत्। एकदा तस्य वार्षिकी परीक्षा आसीत्। सः परीक्षायै विद्यालयं गच्छति स्म। विद्यालयं गच्छन् सः मार्गे एकं (2) ..... अपश्यत्। सः वृद्धः रुग्णः आसीत्। बालः तं वृद्धं (3) ..... नीतवान्। यद्यपि तस्य परीक्षायै विलम्बः भवति स्म तथापि सः (4) ..... समीपे एव अतिष्ठत्। तं वृद्धं चिकित्सालयं प्राप्य किञ्चिद् विलम्बेन सः विद्यालयं प्राप्तः। अतः तस्मिन् दिने तस्य (5) ..... नाभवत्। सः गृहम् आगतवान्। सः कमपि किञ्चिदपि न अकथयत्। (6) ..... दिवसे यदा सः विद्यालयं गतः तदा प्रधानाचार्यः तम् आहूतवान्। प्रधानाचार्यः तस्य (7) ..... धन्यवादम् अकरोत्। सः बालम् अकथयत् यत् ह्यः त्वं यस्य वृद्धस्य सहायतां कृतवान् सः मम (8) ..... अस्ति। सः केनापि कारणेन ममोपरि रुष्टः आसीत्। सः रुग्णः अपि (9) ..... बहिः निर्गतः। चिन्तां मा कुरु, तव परीक्षा पुनः भविष्यति। अग्रिमे दिवसे सः बालः प्रार्थना-सभायां (10) ..... अभवत्।
| पिता, दयालुः, वृद्धम्, गृहात्, परीक्षा, सम्मानितः, बालकस्य, अन्यस्मिन्, वृद्धस्य, चिकित्सालयम्। |
Advertisements
Solution
एकः बालकः आसीत्। सः पठने बहुकुशलः नासीत्। परन्तु सः स्वभावेन (1) दयालुः आसीत्। एकदा तस्य वार्षिकी परीक्षा आसीत्। सः परीक्षायै विद्यालयं गच्छति स्म। विद्यालयं गच्छन् सः मार्गे एकं (2) वृद्धम् अपश्यत्। सः वृद्धः रुग्णः आसीत्। बालः तं वृद्धं (3) चिकित्सालयम् नीतवान्। यद्यपि तस्य परीक्षायै विलम्बः भवति स्म तथापि सः (4) वृद्धस्य समीपे एव अतिष्ठत्। तं वृद्धं चिकित्सालयं प्राप्य किञ्चिद् विलम्बेन सः विद्यालयं प्राप्तः। अतः तस्मिन् दिने तस्य (5) परीक्षा नाभवत्। सः गृहम् आगतवान्। सः कमपि किञ्चिदपि न अकथयत्। (6) अन्यस्मिन् दिवसे यदा सः विद्यालयं गतः तदा प्रधानाचार्यः तम् आहूतवान्। प्रधानाचार्यः तस्य (7) बालकस्य धन्यवादम् अकरोत्। सः बालम् अकथयत् यत् ह्यः त्वं यस्य वृद्धस्य सहायतां कृतवान् सः मम (8) पिता अस्ति। सः केनापि कारणेन ममोपरि रुष्टः आसीत्। सः रुग्णः अपि (9) गृहात् बहिः निर्गतः। चिन्तां मा कुरु, तव परीक्षा पुनः भविष्यति। अग्रिमे दिवसे सः बालः प्रार्थना-सभायां (10) सम्मानितः अभवत्।
