5. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत- (क) सङ्गीतसाधनेषु प्रतिध्वनेः उत्पादनार्थं यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः। (ख) एकदा स्वातिनामकः मुनिः आसीत्।
Advertisements
Question
5. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत-
(क) सङ्गीतसाधनेषु प्रतिध्वनेः उत्पादनार्थं यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः।
(ख) एकदा स्वातिनामकः मुनिः आसीत्।
(ग) तत्र पर्वतात् पतन्तः जलबिन्दवः शुष्कपर्णानाम् उपरि पतित्वा मधुरं सङ्गीतं जनयन्ति स्म।
(घ) सः पिपासया पीडितोऽभवत्।
(ङ) एवं यत् सङ्गीतसाधनं निर्मितवान् तस्य नाम मृदङ्ग इति।
(च) तं शब्दम् अनुसृत्य स अग्रे गतः।
(छ) एतद् अवगत्य प्रेरितः स तृषाकुलतां विस्मृत्य वेगेन आश्रमम् आगतवान्।
Advertisements
Solution