English

Sanskrit Official Board Paper 2025-2026 English Medium Class 10 Question Paper Solution

Advertisements
Sanskrit [Official Board Paper]
Marks: 80 CBSE
English Medium
Hindi Medium

Academic Year: 2025-2026
Date & Time: 28th February 2026, 10:30 am
Duration: 3h
Advertisements

सामान्यनिर्देशाः 

  1. अस्मिन्‌ प्रश्नपत्रे चत्वारः खण्डा सन्ति।
  2. अस्मिन्‌ प्रश्नपत्रे अष्टादश (18) प्रश्नाः सन्ति।
  3. खण्डः 'क' - 1 - प्रश्नसंख्या 1
  4. खण्डः 'ख' - 3 - प्रश्नसंख्या 2 - 4
  5. खण्डः 'ग' - 7 - प्रश्नसंख्या 5 - 11
  6. खण्डः 'घ' - 7 - प्रश्नसंख्या 12 - 18
  7. विशिष्टनिर्देशानुसारं प्रश्नाः समाधेयाः
  8. उत्तरपुस्तिकायां लेखनात्‌ पूर्वम् सर्वप्रथमं प्रश्नसंख्या लेखनीया

खण्डः ‘क’ अपठिताववबोधनम्‌ (10 अङ्काः)
[10]1.

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

भारतवर्षः अस्माकं जन्मभूमिः अस्ति। भारतदेशः संसारे प्रसिद्धः अस्ति। अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिता: च भवामः। इयं जन्मभूमिः भारतभूमिः अस्माकं मातास्ति। अस्याः महिमा वर्णयितुं न शक्यते। इयं सा भारतभूमिः अस्ति, यत्र बहवः महर्षयः देशभक्ताः महाराजाश्च अभवन्‌। ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम्‌ अकुर्वन्‌। यदा सर्वस्मिन्‌ जगति अविद्यायाः प्रसारः आसीत्‌, तदा अत्र ऋषयः वेदानां गानम्‌ कुर्वन्ति स्म। ते विदेशान्‌ गत्वा ज्ञानस्य प्रसारम्‌ अकुर्वन्‌। अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्‌, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम्‌ अस्ति। अस्माकं कर्तव्यमस्ति यद्‌ वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

  1. जगति कस्याः प्रसारः आसीत्‌?
  2. वयं कस्य सदा उन्नतिं कुर्याम?
  3. भारतवर्षः केषां जन्मभूमिः अस्ति?

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌) 4

  1. अत्र (भारते) के के महापुरुषाः अभवन्‌?
  2. वयं केन पालिताः पोषिताः भवामः?
  3. अस्माकं किं कर्तव्यमस्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1

(ई) यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌) 3

  1. ‘देशभक्ताः’ अस्य पदस्य विशेष्यपदं गद्यांशे कि प्रयुक्तम्‌?
    1. बहवः 
    2. महर्षयः
    3. महाराजाः 
    4. अभवन्‌
  2. ‘भवामः’ क्रियायाः कर्तृपदं किम्‌?
    1. ते
    2. वयम्‌ 
    3. यूयम्‌
    4. अहम्‌
  3. गद्याशे ‘संसारे’ अस्य समानार्थकपदं कि प्रयुक्तम्‌?
    1. जगति
    2. भूमौ
    3. भारते
    4. समस्ते
  4. ‘आगत्य’ इत्यस्य विपर्ययः कः?
    1. यदा
    2. ज्ञानस्य 
    3. अस्य
    4. गत्वा
Concept: undefined - undefined
Chapter:
खण्डः 'ख' रचनात्मकं कार्यम्‌ (15 अङ्काः)
[5]2.

भवती आशिमा। भवती पुस्तकालयात्‌ एकं संस्कृतपुस्तकं ‘सुभाषितम्‌’ स्वीकृत्य पठितवती। तस्य पुस्तकस्य छायाप्रतिं स्वभ्रातुः सकाशं प्रेषयति। अधोलिखितं पत्रं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखतु। 

दिल्लीः              

दिनाङ्कः ______

प्रिय (i) ______

सस्नेहं नमो नमः।

अत्र कुशलं (ii) ______। भवान्‌ लिखितवान्‌ यत्‌ संस्कृतभाषायां लिखितं पुस्तकं पठितुम्‌ (iii) ______। मया पुस्तकालयात्‌ (iv) ______ संस्कृतपुस्तकं स्वीकृत्य पठितम्‌। तस्मिन्‌ अनेकानि (v) ______ निहितानि सन्ति, येभ्यः मानवाः सदाचारवन्तः भवितुं शक्नुवन्ति। तस्य (vi) ______ छायाप्रतिं कारयित्वा अहं (vii) ______ सकाशं प्रेषयामि। पठने भवतः रुचिः सर्वदा (viii) ______ भवान्‌ कथमस्ति इति लिखतु। मातापितरौ (ix) ______ मम प्रणामाञ्जलिः निवेदनीया।

भवदीया स्नेहसिक्ता

(x) ______          

आशिमा         

मञ्जूषा

प्रति, इच्छामि, भगिनी, तत्रास्तु, वर्धताम्‌, भ्रातः, भवतः, पुस्तकस्य, जीवनमूल्यानि, सुभाषितम्‌।
Concept: undefined - undefined
Chapter:
[5]3. (i)

अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत। 

मञ्जूषा

हस्ते, उपविशति, सीता, शेते, माला, अस्ति, धनुः, अङ्के, शुकः, अस्ति, वृक्षौ, कण्ठे, रामः, शयनम्‌।
Concept: undefined - undefined
Chapter:
अथवा
[5]3. (ii)

मंञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत।

'वृक्षाः अस्माकं मित्राणि'

मञ्जुषा

वृक्षाः, सत्पुरुषाः, परोपकारम्‌, छाया, फलानि, पुष्पाणि, जनाः, पवनः, काष्ठम्‌, शीतलः, स्वास्थ्याय, आवश्यकम्‌, पथिकः, आनन्दम्‌, अनुभवन्ति, भूमेः संरक्षणम्‌, वर्षा, पक्षिभ्यः वासः।
Concept: undefined - undefined
Chapter:
[1]3. (iii)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

तुम सब विद्यालय जाते हो। 

You all go to school.

Concept: undefined - undefined
Chapter:
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्‌)
[1]4. (i)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

तुम सब विद्यालय जाते हो। 

You all go to school.

Concept: undefined - undefined
Chapter:
[1]4. (ii)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं कल अपने मामा के घर गया था।

I went to my maternal uncle’s home yesterday.

Concept: undefined - undefined
Chapter:
[1]4. (iii)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

धनिक निर्धन को धन देते है।

The rich give money to the poor.

Concept: undefined - undefined
Chapter:
[1]4. (iv)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

गीता कल गाना गायेगी।

Tomorrow Geeta will sing a song.

Concept: undefined - undefined
Chapter:
[1]4. (v)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

यह मेरे मित्र का घर है।

This is my friend’s home/house.

Concept: undefined - undefined
Chapter:
[1]4. (vi)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

हमें पर्यावरण की रक्षा करनी चाहिए।

We should protect the environment.

Concept: undefined - undefined
Chapter:
[1]4. (vii)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

निधेय अपने पिताजी के साथ घूमने जाता है।

Nidheya goes for a walk with his father.

Concept: undefined - undefined
Chapter:
खण्डः 'ग' अनुप्रयुक्त-व्याकरणम्‌ (25 अङ्काः)
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - (केवलं प्रश्नचतुष्टयम्‌)
[1]5. (i)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - 

क्रोधो हि शत्रुः प्रथमो नराणाम्‌।

Concept: undefined - undefined
Chapter:
[1]5. (ii)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - 

कथं जनः + तम्‌ परितोषयिष्यति?

Concept: undefined - undefined
Chapter:
[1]5. (iii)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - 

महानगरमध्ये चलदनिशम्‌ कालायसचक्रम्‌।

Concept: undefined - undefined
Chapter:
[1]5. (iv)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - 

“एतत्‌ भवान्‌ पश्यति न?” इति प्रति + अवोचत्‌

Concept: undefined - undefined
Chapter:
[1]5. (v)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - 

अपिदिरेऽम्बरपथं परितः पतङ्गाः।

Concept: undefined - undefined
Chapter:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्‌)
[1]6. (i)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

रामः कुशलवौ आसनार्धम्‌ उपवेशयति।

कुशः च लवौ च

कुशः च लवः च

कुशौ च लवौ च

कुशौ च लवः च

Concept: undefined - undefined
Chapter:
[1]6. (ii)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

वृक्षस्य उपरि वानरः आरोहति।

वृक्षे उपरि

वृक्षस्योपरि

वृक्षोपरि

वृक्षौपरि

Concept: undefined - undefined
Chapter:
[1]6. (iii)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

अहमेव स्थितप्रज्ञः इव स्थित्वा सर्वेषां रक्षायाः उपायान्‌ चिन्तयिष्यामि।

स्थिता प्रज्ञा यस्य सः

स्थिता प्रज्ञा यस्याः सा

स्थितः प्रज्ञः यस्या सा

स्थिताः प्रज्ञाः यस्मै तत्‌

Concept: undefined - undefined
Chapter:
Advertisements
[1]6. (iv)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

समयम्‌ अनतिक्रम्य सर्वेषां महत्वं विद्यते। 

उपसमयम्‌

अनुसमयम्‌

प्रतिसमयम्‌

यथासमयम्‌

Concept: undefined - undefined
Chapter:
[1]6. (v)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

अभियुक्तः च अतीव कृशकायः आसीत्‌।

कृशः च कायः च

कृशं च कायं च

कृशः कायः यस्य सः

कायं च कृशं च

Concept: undefined - undefined
Chapter:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्‌)
[1]7. (i)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चित्‌ वित्तम्‌ उपार्जितवान्‌

उप + अर्ज्‌ + क्तवतु

उप + अर्ज्‌ + क्त

उप + अर्ज्‌ + तव्यत्‌

उप + अर्ज्‌ + अनीयर्‌

Concept: undefined - undefined
Chapter:
[1]7. (ii)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

अवक्र + तल्‌ यथा चित्ते तथा वाचि भवेद्यदि। 

अवक्रत्वम्‌

अवक्रता 

अवक्रतला 

अवक्रतल्‌

Concept: undefined - undefined
Chapter:
[1]7. (iii)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

किं कुपिता एवं भणति?

कुप्‌ + ता

कुपित + ता

कुपित + टाप्‌

कुपित + तल्‌

Concept: undefined - undefined
Chapter:
[1]7. (iv)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

पुत्रद्वयोपेता बुद्धि + मतुप्‌ पितुगृहं प्रति चलिता।

बुद्धिमान्‌

बुद्धिमन्तः

बुद्धिमत्यः

बुद्धमती

Concept: undefined - undefined
Chapter:
[1]7. (v)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

तपोवनवासिनो देवी इति नाम्ना आयन्ति।

देव + ङीप्‌

देवी + ङीप्‌

देव + ई

देव + टाप्‌

Concept: undefined - undefined
Chapter:
वाच्यानुसारम्‌ उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत - (केवलं प्रश्नत्रयम्‌)
[1]8. (i)

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत -

राधिका - आराध्ये! त्वं कुत्र गच्छसि?

आराध्या - राधिके! मया तु हट्टम् ______।

गच्छ्‌यते

गम्यते

गच्छामि

गम्यन्ते

Concept: undefined - undefined
Chapter:
[1]8. (ii)

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत -

राधिका - ______ हट्टं किमर्थं गम्यते?

आराध्या - अहं पुस्तकं क्रेतुं तत्र गच्छामि।

त्वम्‌ 

त्वया

अहम्‌

मया

Concept: undefined - undefined
Chapter:
[1]8. (iii)

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत -

राधिका - एवं वा। महयमपि पुस्तक-पठनं रोचते।

आराध्या - तव प्रियं पुस्तकं किम्‌ ______?

अस्ति

भूयते

स्तः

सन्ति

Concept: undefined - undefined
Chapter:
[1]8. (iv)

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत -

राधिका - मम प्रिय पुस्तकं हितोपदेशः अस्ति।

आराध्या - अस्तु। अधुना ______ चलामि।

मया

आवाभ्याम्‌

आवाम्‌

अहम्‌

Concept: undefined - undefined
Chapter:
कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत - (केवलं प्रश्नचतुष्ट्यम्‌)
[1]9. (i)

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

राघवः प्रतिदिनं प्रातः (5:30) वादने उत्तिष्ठति।

Concept: undefined - undefined
Chapter:
[1]9. (ii)

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

सः (6:00) वादने योगासनं करोति।

Concept: undefined - undefined
Chapter:
[1]9. (iii)

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

सः (6:00) वादने योगासनं करोति।

Concept: undefined - undefined
Chapter:
[1]9. (iv)

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

ततः (7:15) वादने स्नाति।

Concept: undefined - undefined
Chapter:
[1]9. (v)

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तदनन्तरं मित्रेण सह (8:45) वादने विद्यालयं गच्छति।

Concept: undefined - undefined
Chapter:
[1]9. (vi)

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

(2:00) वादने विद्यालयात्‌ गृहमागच्छति।

Concept: undefined - undefined
Chapter:
मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्‌)
[1]10. (i)

प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

हयाः नागाः ______ बोधिताः वहन्ति।

वृथा

तदा

कुत्र

Concept: undefined - undefined
Chapter:
[1]10. (ii)

प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

यदा किञ्चिद्‌ अविनयं पश्यति ______ एवम्‌ अधिक्षिपति।

वृथा

तदा

कुत्र

Concept: undefined - undefined
Chapter:
[1]10. (iii)

प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत - 

न तावत्‌ कलहेन समयं ______ यापयन्तु।

वृथा

तदा

कुत्र

Concept: undefined - undefined
Chapter:
Advertisements
[1]10. (iv)

प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत - 

______ गच्छति भवान्‌?

वृथा

तदा

कुत्र

Concept: undefined - undefined
Chapter:
अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत - (केवलं प्रश्नत्रयम्‌)
[1]11. (i)

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

एका सिंहः सुखेन विश्राम्यते।

एकम्‌

एकः

एकेन

एकाः

Concept: undefined - undefined
Chapter:
[1]11. (ii)

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

त्वम्‌ पाठं पठति

पठसि

पठामि

पठथः

पठथ

Concept: undefined - undefined
Chapter:
[1]11. (iii)

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

ह्यः मम मातुलः युद्धक्षेत्रात्‌ प्रत्यागमिष्यति

प्रत्यागमिष्यसि

प्रत्यागच्छति

प्रत्यागच्छत्‌

प्रत्यागच्छन्‌

Concept: undefined - undefined
Chapter:
[1]11. (iv)

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

कीदृशः तव मैत्री?

कीदृशं

कीदृशी

कीदृशीः

कीदृशाः

Concept: undefined - undefined
Chapter:
खण्डः 'घ' - पठितावबोधनम्‌ (30 अङ्का:)
[5]12.

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

कश्चित्‌ कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्‌ आसीत्‌। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्‌। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुदन्‌ अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः। क्षेत्रे पपात। क्रुद्धः कृषीवलः तम्‌ उत्थापयितुं बहुवारम्‌ यत्नमकरोत्‌ तथापि वृषः नोत्थितः।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) 1

(क) कृषकः कीदृशं वृषभं तोदनेन नुदन्‌ अवर्तत?

(ख) तथापि कः न उत्थितः?

(ग) कः क्षेत्रकर्षणं कुर्वन्‌ आसीत्‌? 

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्‌) 2

(क) दुर्बलः वृषभः केन गन्तुमशक्तः आसीत्‌?

(ख) कृषकः काभ्यां क्षेत्रकर्षणं कुर्वन्‌ आसीत्‌? 

(ग) कीदृशः कृषीवलः तमुत्थापयितुं बहुवारं यत्नम अकरोत्‌? 

(iii) यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) ‘क्रुद्धः कृषीवलः’ अनयोः विशेष्यपदं किम्‌?

(ख) ‘सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात’ अत्र ‘पपात’ क्रियायाः कर्तृपदं किम्‌?

(ग) ‘असमर्थः’ इत्यस्य पर्यायपदं गद्यांशे कि प्रयुक्तम्‌?

Concept: undefined - undefined
Chapter:
[5]13.

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान्‌ संस्कृतेन उत्तरत -

गुणी गुणं वेत्ति न वेति निर्गुणो

बली बलं वेत्ति न वेत्ति निर्बलः।

पिको वसन्तस्य गुणं न वायसः

करी च सिंहस्य बलं न मूषकः॥

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) 1

(क) कः बलं वेत्ति?

(ख) वायसः कस्य गुणं न वेत्ति? 

(ग) सिंहस्य बलं कः जानाति?  

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) गुणं कः वेत्ति कः न वेत्ति?

(ख) वसन्तस्य गुणं कः जानाति?

(ग) करी कस्य बलं वेत्ति?

(iii) निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) ‘निर्बलः’ इत्यस्य विलोमपदं किं प्रयुक्तम्‌?

(ख) ‘गजः’ अस्य कः पर्यायः अत्र प्रयुक्तः?

(ग) ‘न वेत्ति निर्बलः’ अत्र क्रियापदं किम्‌?

Concept: undefined - undefined
Chapter:
[5]14.

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः अतिदीर्घः प्रवासोऽयम्‌ दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्‌) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्‌, विशेषतस्तपोवने। तत्‌ कोऽतराभ्युपायः?
विदूषकः (जनान्तिकम्‌) अहं पुनः पृच्छामि। (प्रकाशम्‌) किं नामधेया युवयोर्जननी?
लवः तस्याः द्वे नामनी।
विदूषकः कथमिव?
लवः तपोवनवासिनो देवीति नाम्नाहयन्ति, भगवान्‌ वाल्मीकिर्वधूरिति।
रामः अपि च इतस्तावद्‌ वयस्य! मुहूर्तमात्रम्‌।
विदूषकः (उपसृत्य) आज्ञापयतु भवान्‌।
रामः

अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः? 

(नेपथ्ये)

इयती वेला सञ्जाता, रामायणगानस्य नियोगः किमर्थं न विधीयते?

उभौ राजन्‌! उपाध्यायदूतोऽस्मान्‌ त्वरयति।
राम मयापि सम्माननीय एव मुनिनियोगः।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) 1

(क) ‘आज्ञापयतु भवान्‌’ इति कः वदति?

(ख) तपोवनवासिनः युवयोः जननीं केन नाम्ना आहृयन्ति?

(ग) ‘तस्याः द्वे नामनी’ इति कः कथयति?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) रामः केन आविष्टः अनयोः मातरं नामतो वेदितुम्‌ इच्छति?

(ख) कः अस्मान्‌ त्वरयति?

(ग) ‘वधूः’ इति नाम्ना सीतां कः आहृयति?

(iii) निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) ‘अहं पुनः पृच्छामि’ अत्र ‘पृच्छामि’ क्रियायाः कर्तृपदं किम्‌?

(ख) ‘ज्ञातुम्‌’ इति पदस्य समानार्थकं पदं किम्‌?

(ग) ‘अतिदीर्घः प्रवासः’ अनयोः विशेषणपदं किम्‌? 

Concept: undefined - undefined
Chapter:
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं प्रश्नचतुष्टयम्‌)
[1]15. (i)

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

बकः छलेन मीनान्‌ भक्षयति।

Concept: undefined - undefined
Chapter:
[1]15. (ii)

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

मन्त्री सभायाम्‌ अपि अकातरः भवेत्‌। 

Concept: undefined - undefined
Chapter:
[1]15. (iii)

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

निर्मलम्‌ जलं नास्ति। 

Concept: undefined - undefined
Chapter:
[1]15. (iv)

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

बुद्धिमती आत्मपुत्रौ चपेटया प्रहरन्ती जगाद। 

Concept: undefined - undefined
Chapter:
[1]15. (v)

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

सः कृच्छ्रेण भारं वहति।

Concept: undefined - undefined
Chapter:
[4]16. (i)

मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -

विचित्रे खलु संसारे नास्ति किञ्चित्‌ निरर्थकम्‌।

अश्वश्चेद्‌ धावने वीरः भारस्य वहने खरः॥

अन्वयः -

(i) ______ संसारे खलु किञ्चित्‌ (ii) ______ न अस्ति। (iii) ______ चेद्‌ धावने वीरः (तर्हि) भारस्य (iv) ______ खरः (वीरः) भवति।

मञ्जूषा

वहने, विचित्रे, अश्वः, निरर्थकम्‌। 
Concept: undefined - undefined
Chapter:
अथवा
[4]16. (ii)

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषायाः साहाय्येन पूरयित्वा पुनः लिखत -

त्यक्त्वा धर्मप्रदां वाचं परुषाम्‌ योऽभ्युदीरयेत्‌।

परित्यज्य फलं पक्वं भुङ्वतेऽपक्वं विमूढधीः॥ 

भावार्थः

यः जनः धर्मप्रदां (i) ______ वदति, सः न केवलं स्वस्य जीवनम्‌ अपितु अन्येषामपि जीवनं रसमयं करोति। किन्तु (ii) ______ उक्त्वा यः सर्वत्र कटुतां (iii) ______। एतादृशः जनः मूर्खः भवति। कठोरवचनानां प्रयोगः तु (iv) ______ कटुफलस्य भक्षणस्य सदृशम्‌ एव भवति। 

मञ्जुषा

कठोरवचनम्‌, अपक्वस्य, प्रसारयति, वाचम्‌।
Concept: undefined - undefined
Chapter:
[4]17.

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत -

  1. तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
  2. सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्ट्यात्‌ पुत्रौ चपेटया प्रहृत्य जगाद।
  3. अस्ति देउलाख्यो ग्रामः।
  4. पश्चाद्‌ अन्यो द्वितीयः कश्चिद्‌ लक्ष्यते।
  5. मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
  6. अयमेकस्तावद्‌ विभज्य भुज्यताम्‌।
  7. कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः?
  8. तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। 
Concept: undefined - undefined
Chapter:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थ चित्वा लिखत - (केवलं प्रश्नत्रयम्‌)
[1]18. (i)

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

यदि एवं तर्हि मां निजगले बद्ध्वा सत्वरम्‌ चल।

शीघ्रम्‌ 

सत्यम्‌

वनम्‌ 

अनृतम्‌

Concept: undefined - undefined
Chapter:
[1]18. (ii)

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

वायुमण्डलं भृशम्‌ दूषितमस्ति।

न्यूनम्‌ 

अत्यधिकम्‌

सर्वम्‌ 

अन्तिकम्‌

Concept: undefined - undefined
Chapter:
[1]18. (iii)

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

दुर्बलः वृषः जवेन गन्तुम्‌ अशक्तः चासीत्‌।

समर्थः 

सबलः

असमर्थः 

शक्यः

Concept: undefined - undefined
Chapter:
[1]18. (iv)

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

गावश्च गोभिः तुरगाः तुरङ्गैः। 

खराः 

गजाः

सिंहाः 

अश्वाः

Concept: undefined - undefined
Chapter:

Other Solutions

































Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

CBSE previous year question papers Class 10 Sanskrit with solutions 2025 - 2026

     CBSE Class 10 question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our CBSE Class 10 question paper 2026 serve as a catalyst to prepare for your Sanskrit board examination.
     Previous year Question paper for CBSE Class 10 -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.

How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×